पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/११५

एतत् पृष्ठम् परिष्कृतम् अस्ति
११४
कुमारसम्भवे ।

कुसुमास्तरणे सहायतां
बहुशः सौम्य गतस्वमावयोः ।
कुरु सम्प्रति तावदाशु मे
प्रणिपाताञ्जलियाचितश्चिताम् ॥ ३५ ॥
तदनु ज्वलनं मदर्पितं
त्वरयेर्दक्षिणवातवीजनैः ।
विदितं खलु ते यथा स्मरः
क्षणमप्युत्सहते न मां विना ॥ ३६ ॥
इति चापि विधाय दीयतां
सलिलस्याञ्जलिरेक एव नौ।

विभावसौ वडौ तनुं शरीरं रचयिष्यामि । निधास्यामीत्यर्थः ॥ ३४ ॥

 कुसुमेति । हे सौम्य माधो त्वमावयो रतिपञ्चबाणयोर्ब- हुशो बहुवारं कुसुमास्तरणे पुष्पशयने सहायतां गतः सम्प्रति प्रणिपाताञ्जलिना याचितः । अञ्जलिपूर्वकं प्रार्थितः सन्नित्यर्थः । आशु मे चितां काष्ठचयं कुरु केशष्व । यथह तथामुत्रोपकर्तव्य' मिव णेत्यर्थः ॥ ३५ ॥

 तदन्विति । तच्चिताकरणमनु अनन्तरं मय्यर्पितं मदर्पितं ज्वलनमग्निं दक्षिणवातवीजनैर्मलयमारुतसञ्चारणैस्त्वरयेः। त्वरितं ज्वलयेत्यर्थः । त्वराडेतुमाह-ते तव विदितं खलु । “मतिबुद्धिपूजार्थेभ्यश्च” इति वर्तमाने कः । तद्योगात्कर्तरि षष्ठौ । यथा येन प्रकारेण स्मरो मां विना क्षणमपि नोक्षहते न द्रषयति । तथा त्वया शातमेवेत्यर्थः ॥ ३६ ॥

 इतीति । अपि च इत्येवं विधाय कृत्वा नौ आवाभ्याम् एक एव सलिलस्य अञ्जलिः दीयताम् । तम् अञ्जलिं स ते