पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/११८

एतत् पृष्ठम् परिष्कृतम् अस्ति
११७
चतुर्थः सर्ग: ॥

चतुर्थः सर्गः । इति चाह स धर्मयाचित: (१) अरशापावधिदां सरस्वतीम् । अशनेरमृतस्य चोभयो- र्वशिनचाम्बुधराश्च योनयः ॥ ४३ ॥ तदिदं परिरक्ष शोभने भवितव्यप्रियसङ्गमं वपुः । रविपीतजला तपात्यये पुनरोघेन हि (२)युज्यते नदी ॥ १४ ॥ याचित: प्रार्थितः स भगवान् ब्रह्मा | तपसा कारणेन नस्यां पार्वत्यां प्रवणोक्कत : अभिमुखीकृतो हरः शिवो यदा पार्वती परियोध्यत्ययति तदोपलब्धसुखः प्राप्तानन्दः सन् | स्मरं कामं खेन वपुषा नियोजयिष्यति सङ्गमयिष्यति । इत्येवं स्मरशापस्यावधिदाम् भवसानदायिनीं सरस्वतीं वाचं चाह। एवं शापावधिमप्यक्तिवानित्यर्थः । ननु तथा क्रुहस्य कथमोहशो शान्तिरत आह- वशिनो जितेन्द्रियासाम्बुधरा- चाशनेरमृतस्य चेत्यु भयोर्थोनयः प्रभवाः । वशिपञ्चेऽशन्यमृत- शब्दौ कोपप्रसादपरौ । अन्यत्र वैद्युताम्न्यु दकपरौ ॥ युग्म- ११७ कम् ॥ ४२ ॥ ४३ ॥ तदिति ॥ हे शोभने तत्तस्मात् कारणाद्भवितव्यो भविष्यन् प्रियसङ्गमो यस्य तत्तथोक्तम् इदं वपुः परिरक्ष। तथाहि । रविपीतजला नदी तपात्यये प्राकृषि ॥ "प्राहट् तपात्यये” इति हलायुधः ॥ पुनरोघेन प्रवाहेण युज्यते सङ्गच्छते हि ॥ ४४ ॥ (१) अरशापान्तभवाम् | (२) पूर्यते ।