पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२०
कुमारसम्भवे ।


इयेष सा कतु मबन्च्यरूपतां
समाधिमास्थाय तपोभिरात्मनः ।
अवाप्यते वा कथमन्यथा वयं
तथाविधं प्रेम पतिश्च तादृशः ॥ २ ॥
निशम्य चैनां तपसे कृतोद्यमां
सुतां (२)[१]गिरौशप्रतिसक्तमानसाम् ।
उवाच मेना परिरथ वक्षसा
निवारयन्तौ महतो मुनिव्रतात् ॥ ३ ॥

 इथेषेति । सा पवत समाधिमेकाग्रतामास्थायावलम्बा तपोभिर्वक्ष्यमाणनियमैः करणभूतैरात्मनः स्वस्याबन्ध्यरूपतां सफलमौन्दर्यं कर्तुमियेषे च्छति खए। तपसा शिवं वशीकर्तुम् युक्तेत्यर्थः । अन्यथा ततोऽन्यप्रकारेण कथं वा तद्इयन्नवाप्यते । किं तदुद्यम् । तथाभूता विधा प्रकारो यस्य तत्तथा विधं प्रेम खेहः। येनार्धाङ्गहरा हरस्य भवेदिति भावः। तादृशः पतिश्च । य ऋत्यक्षय इति भावः । इयमेव खलु स्त्रीणामपेक्षितं यदूढ्वालये जीवङ्गर्ट कत्व चेति । तत्र तप श्चयकसध्वमिति निश्चिकायेत्यर्थः । अत्र मनुः-"‘यटु दुष्करं यद् दुरापं यदु दुर्मे यच दुस्तरम्। तसर्वे तपसा प्राप्यं तपां हि दुरतिक्रमम्” इति ॥ २ ॥

 निशम्यति । मेना मेनका च गिरीशप्रतिसक्तमानसां झराः सतचि तां तपसे तपश्चरणाय कृतोद्यमां कृतोद्योगां सुतां निशम्य श्रुत्वैनां पार्वतीं वक्षस परिरभ्यालिङ्ग्य महतो मुनि व्रतात्तपसो निवारयन्त उवाच ॥ मुनिव्रतादित्यत्र यद्यपि सुनिव्रतस्य मनकाया अनीप्सितत्वात् “वारणार्थगामीसितः। इति नापादानव तथापि कृतोद्यमामिति मानसप्रवेशत


  1. गिरौशं प्रति सत, त्रिनेत्र प्रति सप्त ।