पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१२३

एतत् पृष्ठम् परिष्कृतम् अस्ति
१२२
कुमारसम्भवे


कदाचिदासन्नसखीमुखेन सा
मनोरथज्ञं पितरं मनस्विनी ।
अयाचतारण्यनिवासमात्मनः
फलोदयान्ताय तपःसमाधये ॥ ६ ॥
अथानुरूपाभिनिवेशतोषिणा
कृताभ्यनुज्ञा गुरुणा गरीयसा।
प्रजासु पश्चात् प्रथितं तदाख्यया
जगाम गौरी शिखरं शिखण्डिमत् ॥७॥
विमुच्य सा हारमहार्यनिश्चया
विलोलयष्टिप्रविलुप्तचन्दनम् ।

प्रतीपयेत् प्रतिकूलयेत्। प्रतिनिवर्तयेदित्यर्थः। निम्नप्रवणम् पय इवेष्टार्थाभिनिविष्टं मनो दुर्वारमिति भावः ॥ अत्र दीपकानुप्राणितोऽर्थान्तरन्यासालङ्कारः ॥ ५ ॥

 कदाचिदिति । अथ कदाचित् मनस्विनी स्थिरचित्ता सा पार्वती मनोरथज्ञमभिलाषाभिज्ञ पितरं हिमवन्तमासन्नसख्याप्तसखी सैव मुखमुपायः ॥ “सुखं निःसरणे वक्त्र प्रारम्भोपाययोरपि” इति विश्वः । तेन । फलोदयः फलोत्पत्तिरन्तोऽवधिर्यस्य तस्मै तपःसमाधये तपोनियमार्थमात्मनः स्वस्यारण्यनिवासं वनवासमयाचत ॥ “दुह्याचू‌-” इत्यादिना द्विकर्मकत्वम् ॥ ६ ॥

 अथेति । अथ गौरी अनुरूपेण योग्येनाभिनिवेशेनाग्रहेण तुषतीति तथोक्ते न गरीयसा पूज्यतमेन गुरुणा पिया क्वताभ्यनुज्ञा तपः कुर्विति क्वतानुमतिः सती पश्चात्तपःसिबुत्तरकालं प्रजासु जनेषु तदाख्यया तस्य गौर्योः संज्ञया प्रथितम् । गीरीशिखरमिति प्रसिद्धमित्यर्थः। शिखण्डिमत् । न तु हिंस्रप्राणिप्रचुरमिति भावः । शिखरं शृङ्गं जगाम ययौ ॥ ७ ॥