पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१२९

एतत् पृष्ठम् परिष्कृतम् अस्ति
१२८
कुमारसम्भवे ।


कुमारसम्भवे

क्रमं ययौ कन्दुकलौलयापि या तया मुनीनां चरितं व्यगाह्यत । ध्रुवं वपुः काञ्चनपद्मनिर्मितं मृदु प्रकृत्या (९)च ससारमेव च ॥ १९ ॥ शुचौ चतुर्णां ज्वलतां हविर्भु जां शुचिस्मिता मध्यगता सुमध्यमा । विजित्य नेत्रप्रतिघातिनीं प्रभा मनन्यदृष्टिः सवितारमैक्षत ॥ २०

क्लममिति ॥ या देवी कन्दुकलीलया कन्दुकक्रीडयाणि क्लमं ययौ ग्लानिं प्राप तया देव्या मुनीनां चरितं तीव्रं तपां व्यगाश्वत प्रविष्टम्। अत्रोत्प्रेक्षते—ध्रुवमस्या वपुः काञ्चनपझे न सुवर्णकमलेन निर्मितं घटितम्। अतएव प्रकृत्या पद्मस्वभावेन मृदु च सुकुमारमपि काञ्चनस्वभावेन ससारं च कठिनमेव । तथा च तदुपादानकत्वाद्देव्या वपुषः सुकुमारस्यापि तौव्रतपःक्षमत्वमित्युत्प्रेक्षार्थः॥ १९ ॥

शुचाविति । शुचौ ग्रीष्मे शुचिस्मिता विशदमन्दहासा सुमध्यमा पार्वती ज्वलतां दीप्तिमतां चतुर्णां हविर्भुजामग्नीनां मध्यगता सतौ । नेत्रे प्रतिहन्तौति तां नेत्रप्रतिघातिनीं प्रभां सावित्र' तेजो विजित्य । न विद्यतेऽन्यत्र दृष्टिर्यस्याः सानन्यदृष्टिः सती सवितारं सूर्यमैक्षत ददर्श। "ग्रीष्म" पश्चाग्निमध्यस्थो वर्षासु स्थण्डिलेशयः" इति स्मरणात् । पञ्च। ग्निमध्ये तपश्चचरित्यर्थः । तत्र सवितैव पञ्चमोऽग्निः--"अग्निः सविता सवितैवाग्निः ” इति श्रौतलिङ्गात् ॥ २० ॥