पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३८
कुमारसम्भवे ।


यथा त्वयैश्चरितैरनाविलै
र्महीधरः पाबत एष सान्वयः ॥ ३७ ॥
अनेन धर्म: सविशेषमद्य मे
त्रिवर्गसारः प्रतिभाति (९)[१]भाविनि ।
त्वया मनोनिर्विषयार्थकामया
यदेक एव प्रतिञ्च सेव्यते ॥ ३८॥
प्रयुक्तसत्कारविशेषमात्मना
न मां परं सम्प्रतिपत्तुमर्हसि ।

विकर्णाः पयः सप्तर्षीणां सम्बन्धिभिः बलिभिः पुष्पोपहारैः प्रहसन्ति ये तथोत र्दिवोऽन्तरिक्षाकृतैर्गाः सलिलैस्तथा न पriाँवतः । अनाविलैरकलुषेबदौरैश्चरितैर्यंथ सान्वयः सपुवपौत्र: पावित: पवित्रीकृतः ॥ ३७ ॥

 अनेनेति । हे भाविनि प्रशस्त्रभिप्राये । अनेन कारों म धर्मः सविशेषं सातिशयमद्य मे। त्वयायं धर्मकामार्थानां वर्गस्त्रिवर्ग: । *त्रिवर्गो धर्मकामार्थश्चतुर्वर्गः समोक्षकै:’ इत्यमरः । तव सारः श्रेष्ठः प्रतिभाति । यशस्वकारणहनमो मिर्विषयावर्थकामौ यस्यास्तया त्वयैको धर्म एव प्रसिद्ध स्वीकृत्य सेष्यते । यवयार्थकामौ विहाय धर्म एवावलखितः । अतः सर्वेषां नः स त्रेयानिति प्रतिपद्यत इत्यर्थः ॥ ३८ ॥

 सम्प्रति मनोरथं जिज्ञासुः प्रस्तौति-----

 प्रयुक्तेति । आमम त्वया प्रयुक्तः ठतः सत्कारविशेषः पूषातिशयो यस्य तं मां परमन्यं सुप्रतिपत्तुमवगन्तु नार्हसि। हे संगतगावि संमताद्धि “प्रङ्गान्नकण्ठेभ्य:” इति ध्यात् प् ॥ यतः कारणाअमश्च ईषिभिर्मनौषिभिर्विहःि । शक दित्वात् साधुः सतां सङ्गतं सख्य' सप्तभिः पदैः आपद्यत


  1. भामिनि।