पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४३
पञ्चमः सर्गः ।


१४४

कुमारसन्भवे

अवेमि सौभाग्यमदेन वञ्चितं तव प्रियं यश्चतुरावलोकिनः । करोति लक्ष्य' चिरमस्य चक्षुषो न वक्तमात्मीयमरालपक्ष्मणः ॥ ४६ ॥ कियचिरं श्राम्यसि गौरि विद्यते ममाषि पूर्वाश्रमसञ्चितं तपः । तदर्धभागेन लभख काङ्क्षितं वरं तमिच्छामि च साधु वेदितुम् ॥५०॥ इति प्रविश्याभिहिता दिजन्मना मनोगतं सा न शशाक शंसितुम् ।

मोति ॥ सवप्रियं वल्लभं सौभाग्यमदेन सौन्दर्य गर्वेण । कर्मा || वचितं विप्रलब्धमवैमि वेद्मि । यः प्रियचतुरं मधुरम वलोकत इति चतुरावलोकिनोऽरालपचाणः कुटिलरोमृणः । "अरालं वृजिनं जिह्मम्" इत्यमरः ॥ अस्य त्वदीयस्य चतुर आत्मीयं वक्त मुखं चिरं लक्ष्यं विषयं न करोति । दृष्टिप न गच्छतीत्यर्थः । तदयं गर्वेण हतो निष्फलामलाभो जाम इति भावः ॥ ४८

कियदिति ॥ हे गौरि । कियत् किंप्रमाणकम् । किमवधि मित्यर्थः । चिरं श्राम्यसि तपस्यसि ॥ अत्यन्तसंयोगे द्वितीया ममापि पूर्वाश्रमः प्रथमाश्रमो ब्रह्मचर्याश्रमस्तव सचितं सम्प दितं तपो विद्यते । अर्धवासों भागच तेन तस्य तपसोऽर्धभ गेनैकदेशेन काङ्गितमिष्टं वरमुपयन्तारं लभख । तं वरं सा सम्यम्बदित ज्ञातुमिच्छामि । यद्यसौ योग्यो भवति त ममापि सम्मतिरिति भावः ॥ ५० ॥ इतीति ॥ इतौ द्विजन्मना हिजेन प्रविश्यान्तर्गत्वा