पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१५५

एतत् पृष्ठम् परिष्कृतम् अस्ति
१५४
कुमारसम्भवे ।


चतुष्कपुष्पप्रकरावकीर्णयोः
परोऽपि को नाम (९)[१]तवानुमन्यते ।
अलक्तकाङ्कानि पदानि पाद्यो
र्विकीर्णकेशासु परेतभूमिषु ॥ ६८ ॥
अयुक्तरूपं किमतःपरं (१)[२]वद
त्रिनेत्रवन्तः सुलभं तवापि यत्।
स्तनद्वयेऽस्मिन् (२)[३]हरिचन्दनास्पदे
पदं चिताभस्मरजः करिष्यति ॥ ६९ ॥

 चतुष्केति ॥ चतुष्के ॥ गृहविशेषे यः पुष्पप्रकरस्तत्र अव कीर्णयोः न्यस्तयोः। कुसुमास्तृतदिव्यभवनभूसञ्चारोचितया रित्यर्थः । तव पादयोरलक्तकाङ्कानि लाक्षरञ्जितानि पदानि पादाकाराणि पादन्यासचिह्नानि । "पदं शब्दे च वाक्ये च व्यवसायापदेशयोः । पादतच्चियोः" इति विश्वः । विकीर्णा विक्षिप्ताः केशाः शवशिरोरुहा यासु तासु विकीर्णकशासु । “अतत्स्थं तत्र दृष्टं' च” इति वचनात् 'स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् ' इति विकल्पात्र ङौप् ॥ परेतभूमिषु प्रेतभूमिषु। श्मशानेष्वित्यर्थः । परोऽपि शत्रुरपि को नामानुमन्यते । न कोऽपीत्यर्थः। नामेति कुत्सायाम् । पिनाकपाणिपाणिग्रहणे तस्य परेतभूसञ्चारित्वेन साहचर्यात्तवापि तत्र सञ्चारेऽवश्यम्भावीति भावः ॥ ६८॥

  अयुक्तोति । त्रिनेत्रवक्षः । त्राम्बकालिङ्गनमित्यर्थः। तव तत्सर्म्बान्धतया सुलभमपि सुप्रापं च। भवतीति शेषः । तवेति शेषे षष्ठी। “न लोकाव्यय ~~ इत्यादिना क्वद्योम लक्षणपष्ठा निषेधात् । अतःपरमस्मास्रिनेत्रवक्षोलाभादन्यदयुक्तरूपम् अत्यन्तायुक्तं किं वद। न किञ्चिदित्यर्थः । "प्रशं-


  1. तथानुमंस्यते ।
  2. भवेत्।
  3. हरिचन्दनाद्धि ।