पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५६
पञ्चमः सर्गः ।


अकिञ्चनः सन् प्रभवः स सम्पदां
(७)[१]बिलोकनाथः पितृसद्मगोचरः ।
स भीमरूपः शिव इत्युदीर्यते
न सन्ति याथार्थंबिः पिनाकिनः ॥७७॥
विभूषणोनासि पिनइभोगि वा
गजाजिनालम्बि दुकूलधारि वा।
कपालि वा (८)[२]यादथवेन्दुशेखरं
न द्विश्वंमूर्तेरवधार्येते वपुः॥ ७८॥

यथाकथञ्चिदास्ताम्। को दोष इत्यर्थः । एतेन ‘अमङ्गलाभ्यासरतिम्” (५। ६५ ) इत्युत प्रत्युक्तम् ॥ ७६ ॥

 अकिञ्चन इति । स ह्यः। न विद्यते किञ्चन द्रव्य यस्य सऽकिञ्चनो दरिद्रः सन्। सम्पदां प्रभवति अस्मादिति प्रभवः कारणम् । पिटस चगोचरः श्मशानाश्रयः सन्। वयाणां लोकानां नाथः । “तद्धितार्थ ” इत्यदिनोत्तरपदसमासः । स देवो भीमरूपो भयराकारः सन् । शिवः सौम्यरूप इत्युदौर्यंत उच्यते । अतः पिनाकिन हरस्य यथाभूतोऽर्थो यथाथेस्तस्य भावो याथार्थं तव' तस्य विदो न सन्ति । लोकोत्तरमहिनो निलंपस्य यथाकथञ्चिदवस्थानं न दोषायेति भावः । एतेन “अवस्तुनिर्बन्धप’ (५।६६) इति शोकोकपरिक्तं वेदितव्यम् ॥ ७७ ॥

 देवस्य लौकिकमलौकिकं च प्रसाधनं नास्तौत्याशयेनाह---

 विभूषणेति । विश्वं मूर्तिर्यस्येति विश्वमूर्तेरष्टमूर्तेः शिवस्य 'वपुः शरीरं भूषणैरुझसत इति, भूषोज्ञानि स्यात्। पिगडभणि आसुतभुजङ्गसं वा स्यात् । पिनोति शतरपिपूर्वात् कर्मणि तः।“वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः” इत्थकार-


  1. स लोकनाथः ।
  2. स्वदथ चन्द्रशेखरम्।