पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७०
कुमारसम्भवे ।


(१)[१]मनोरथस्याविषयं मनोविषयमासनः ॥१७॥
यस्य चेतसि वर्तेथाः स तावत कृतिनां वरः।
किं पुन(२)[२]र्व्र आयोनेर्यस्तव चेतसि वर्तते ॥१८॥
सयमकांच सोमाच्च परमध्यास्महे पदम् ।
अद्य तूच्चैसरं (३)[३]ताब्यां स्मरणानुग्रहासव ॥१९॥
त्वत्सम्भावितमात्मानं बहु मन्यामहे वयम् ।
प्रायः प्रत्ययमाधत्त स्त्रगुणं पूत्तमादरः ॥ २० ॥

विषयं मनीदेशमारोपिता: प्रापिता: । तस्मfिऽपक्वं फलमिति पूर्वेण सम्बन्धः । सकलजगदन्वेष्टव्यस्य भगवतोऽपि वयमन्वेथा भवाम इति परमोत्क्रुष्टा वयमिति भावः ॥ १७॥

 तदेवोपपादयति----

 यस्येति । यस्य जनस्य चेतसि वर्तेथाः। येन स्मर्यस इत्यर्थः । स तावत्स एव तन तत्रत्यानां वरः श्रेष्ठः । अgणे वेदस्य वेधसो वा योनेः कारणस्य । यदा वेदप्रमाण कस्य। तव चेतसि यो वर्तते । त्वया अर्यत इत्यर्थः । किं पुन:। स कृतिनां वर इति किमु वक्तव्यमित्यर्थः ॥ १८ ॥

 सत्यमिति । अर्कात् ख्यञ्च सोमाधट्राश्च परमुचैः पदं स्याश्रमध्यास्महे तिष्ठामः । वयमिति शेषः । सत्यम् ॥ “प्रधि शौञ्चस्यासां कर्म’ इति कर्मत्वम् । अद्य तु तव। कर्तुः ॥ परमेवानुग्रहः प्रसादस्माद्धेतोः । ताभ्यामर्केन्दुभ्यामुच्चै दरम्त्युचं पदम् । अध्यास्महे इति सम्बन्धः । उच्च स्तरमिति द्रव्यप्रकर्षत्वमुप्रत्ययः ॥ १९ ॥

 त्वदिति । वयं त्वया सम्भावितं सत्कृतं त्वक्षभावितम् तमागमात्मखरूपं बधिकं यथा तथा मन्यामहे। तथाङि । उत्तमादरः सत्पुरुषकट का सकारः स्वगुणेषु विषये प्रायेण


  1. मनोरथस्याप्यपग्रम् ।
  2. विश्वयोनेः।
  3. तस्मात्।