पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८३
षष्ठः सर्गः ।


जङ्गमं (१)[]प्रैष्यभावे वः स्थावरं चरणाङ्कितम् ।
विभक्तानुग्रहं मन्ये (२)[]द्विरूपमपि मे वपुः ॥ ५८ ॥
भवत्सम्भावनयाय परितोषाय मूर्छते।
(३)[]अपि व्याप्तदिगन्तानि नाङ्गानि प्रवंभन्ति मे ॥ ५९ ॥
न केवलं दरीसंथ भावतां दर्शनेन वः।
अन्तर्गतमपास्तं मे रजसोऽपि परं तमः ॥ ६० ॥

</poem>  जङ्गममिति । हे सुनयः । द्विरूपं जङ्गमस्थावरात्मकत्वाद् द्विप्रकारकमपि मे वपुर्विभक्तानुग्रहं विभज्य छतिप्रसादं मन्ये । कुतः । जङ्गमं वपुर्वो युष्माकं प्र थभावे कैड्”। स्थितमिति शेषः । "प्रादूहोढोढ्य चैथेषु वह्निर्वक्तव्या' इति वृद्धिः ॥ “नियोज्यकिङ्करन धभुजिष्यपरिचारका:’ इत्यमरः ॥ स्थावरं वपुश्चरणाङ्कितम् । अयमेव हि महाननुग्रहो दासजनस्य यत् कर्मसु नियोजनं मूर्धनि पादन्यासयेति तात्पर्यार्थः ॥ ५८ ॥

 भवदिति । व्याप्ता दिगन्ता यैस्तानि व्याप्तदिगन्तानि । महार्थपौत्यर्थः । मे मम अङ्गानि भवसम्भावनोत्थाय युकदनुग्रहजन्याय मृत व्याम् वते परितोवाय न प्रभवति न पर्याप्त वन्ति । अलमर्थयोगाचतुर्थी । यथा महत्स्वपि मद् गात्रेषु न भाति तथा में इव वर्धत इत्यथः ॥ ५९ ॥

 नेति । भास्वतां तेजस्विनां विवस्वतां च वो युष्माकं दर्श नेन केवलं दरीसंस्थ गुहागतं तमो ध्वान्तरूपमेव नापास्तम् । किन्तु मेऽन्तर्गतमन्तरात्मगतं रजसो रजोगुणात्परमनन्तरं तमोऽज्ञानरूपमप्यपास्तम् । रजस्तु पादन्यासैरेवापास्तमिति भावः । प्रसिहैर्भास्वद्भिश्च तमोपास्यत एभिस्वान्तरमपीति व्यतिरेको व्यज्यते॥ ६० ॥


  1. प्रे श्यभावेम।
  2. विरूपम्, ईरूप्यम्।
  3. अभिव्याप्त ।