पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९१
षष्ठः सर्गः ।


शैलः सम्पूर्णकामोऽपि मेनामुखमुदैक्षत।
प्रायेण यहिणीनेत्रः (९)[१]कन्यार्थेषु कुटुम्बिनः ॥ ८५ ॥
मेने मेनापि (१)[२] तक्षयः। तत्सर्वं पत्युः (२)[३]कार्यमभौसितम्
भवन्त्यव्यभिचारिण्यो भर्तुरिष्टे पतिव्रताः ॥८६॥
इदमत्रोत्तरं न्याय्यमिति बुद्ध्या विस्श्य सः ।
आददे वचसामन्ते मङ्गलालङ्कतां सुताम् ॥८७॥
एहि(३)[४]विश्वात्मने वत्से (४)[५]भिक्षासि परिकल्पिता

गखयामास सञ्चख्यौ । लज्जावशात्कमलदलगणनव्याजेन हर्ष जुगपत्यर्थः । अननावहत्याख्यः सञ्चारी भाव उक्तः । तदुवम्--"प्रवहित्था तु लज्जादेर्हर्षाद्याकारगोपनम्” इति ॥८४॥

 शैल इति । शैलो हिमवन् सम्पूर्णकामोऽपि। दातु कृतनिश्चयोऽपीत्यर्थः। मेनामुखमुदैक्षत। उचतोत्तरजिज्ञासयेति भावः । तथाहि। प्रायेण कुटुम्बिनो ग्रहाः कन्याषु कन्याप्रयोजनेषु टहिण्य व नेत्र कार्यानकारणं येषां ते तथोक् । कलनप्रधानवृत्तय इत्यर्थः ॥ ८५ ॥

 मन इति । मेनापि पत्युः हिमालयस्य तसर्वमभक्षितं कार्यं मेनेऽङ्गीचकार । तथाहि। पतिरेव व्रतं यासां ता भर्तुः इष्टेऽभीप्सिते न विद्यते व्यभिचारो यासां ता अव्यभिचारियो भवन्ति । भट्टचित्ताभिप्रायज्ञा भवन्तीति भावः ॥ ८६ ॥

 इदमिति । स हिमवान् वचसामन्ते मुनिवाक्यावसनेिव सुनिवाक्य इदमुत्तरलोके वक्ष्यमाणं दानमेव न्याय्यं न्यायानपेतमुत्तरमिति बुद्ध वित्त न विमृश्य विचिन्थ मङ्गलं था तथालङ्कतां मङ्गलालद्रुतां सुतामाददे हस्ताभ्यां जग्राह ॥ ८७ ॥


  1. कन्यार्थं हि ।
  2. तव्तः ।
  3. कार्यं समीहितम् ।
  4. शर्वार्पये ।
  5. भिक्षा त्वम्।