पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
सप्तमः सर्गः ।


अथौषधीनामधिपस्य वृ छौ
तिथौ च जामित्रगुणान्वितायाम्।
समेतबन्धुर्हिमवान् सुताया
विवाहदौदाविधिमन्वतिष्ठत् ॥ १ ॥
वैवाहिकैः कौतुकसंविधानै-
हे गृहे व्यग्रपुरंध्रिवर्गम्।
आसौत् पुरं सानुमतोऽनुरागान्
दन्तःपुरं चैककुलोपमेयम् ॥ २ ॥

 अथेति । अथ तदनन्तरं हिमवान् ओषधीनामधिपस्य चन्द्रस्य वृद्धौ । शुक्लपक्ष इत्यर्थः । शुभकमस्यापूयमाणपक्षस्य प्राशस्त्यात् । तिथौ च जामिन ' लग्नासप्तमं स्थानं तस्य गुणः अद्धिः सा च ग्रहराहित्यं तेनान्वितायां सत्याम्। यद्यपि जामिवशुद्धिर्लग्नधर्मस्तथापि तद्वारा तिथेरपि तथा व्यपदेशे न दोषः। समेतबन्धुयुक्तबन्धुः सन्। सुताया दुहितुर्विवाहदीव विवाहसंस्कारः सैव विधिः कर्म तमन्वतिष्ठत् ठतवान् ॥ १ ॥

 वैवाहिकैरिति । अनुरागप्रतिवशात् । छड़ी यह प्रतिगृहम् । वीप्सायां हिर्भावः । विवाः प्रयोजनमेषमिति वैवाहिकानि तैः । `तदस्य प्रयोजनम्” इति ठक् ॥ कौतुकसंविधानैर्मङ्गलार्थसम्यादनैर्युग्रो व्याकुलः पुरंध्रिवर्गः कुटुस्त्रिभासो यस्मिस्तत्तथोक्तं सानुमतोऽद्रेः पुरं बाह्यमोषधिप्रस्थमन्तःपुरमवरोधनं चैककुलेन एकटॐण वोपमेयमासत् ॥ ‘सजातीयगणे गोत्रे युद्धेऽपि कथितं कुलम्” इति विश्वः ॥ सर्वेषामपि खटह एवेदं शोभनं वर्तत इत्यभिमानोऽभूदि त्यर्थः । एतेन हिमाद्रेः प्रजाराग उतः । अत्र सर्वे सम्पन्नमवत्यथः ॥ २ ॥