पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०४
कुमारसम्भवे

तस्याः सुजातोत्पलपत्त्रकान्ते प्रसाधिकाभिर्नयने (१)[१]निरीक्ष्य । न चक्षुषोः कान्तिविशेषबुबा कालाञ्जनं मङ्गलमित्युपात्तम् ॥ २० ॥ सा सम्भवद्भिः कुसुमैर्लतेव । ज्योतिर्भिरुद्यद्भिरिव त्रियामा । सरिद्विहङ्गौरिव लीयमानै रामुच्यमानाभरणा चकासे ॥ २१ ॥

 तस्य इति । प्रसाधिकाभिः अल लुनीभिः सुजाते सम्यगुत्पन्न उत्पलपल इव कान्ते रम्ये तस्य नयने निरीच्य कालाज्ञानमज्ञानविशेषय तृषोः कान्तिविशेषबुद। शोभातिशय भविष्यतीति इडेनेत्यर्थः । नोपात्तं न रईतं किन्तु मङ्गलं शभमिति हेतोरुपात्तम् । निसर्गसुभगस्य किमाहर्यंकाडमरेति भावः ॥ २० ॥

 सेति ॥ आमुच्यमानाभरणा निबध्यमानाभरणा सा गौरी सभवद्भिरुत्पद्यमानैः कुसुमैः लतव । अनेन पद्मरागेन्द्रनीलदन्थाभरणानि सूचितानि लताकुसुमानां नानावर्णत्वात् । उद्यन्निरुदयं गच्छन्निर्थातिर्भरुक्षुभिः त्रियामा रात्रिरिव । अनेन मौक्तिकानि कथितानि । लयमानैराश्रयकिः। निषौदद्भिरित्यर्थः । विहङ्गचक्रवाकैः सरिदिव । अनेन सुवर्णाभरलागि खचितानि । विहङ्गवश्च तत्सूचनाय चक्रवाका अभिमताः। णकासे रेजे । अत्र लताकुसुमादीनां सहजसम्बन्धिनामुपमानत्वेनोपादानादाहार्येकमपि तस्याः सहजमिवाशे। भतेति भावः । २१ ॥


  1. समीक्ष्य ।