पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०८
कुमारसम्भवे


तया तु (४)[१]तस्यार्धशरीरभाजा
पञ्चत्कृताः (५)[२]स्निग्धजनाशिषोऽपि ॥२८॥
इच्छाविभूत्यरनुरूपमद्भि
तस्याः कृती कृत्यशेषयित्वा।
सम्यः सभायां सुहृदास्थितायां
तस्थौ वृषाङ्क(६)[३]गमनप्रतीकः ॥ २९ ॥
ताबङ्ग(७)[४]वस्यापि कुबेरशैले
तत्पूर्वपाणिग्रहणानुरुपम् ।
प्रसाधनं मातृभिरादृताभि-
न्यैस्तं पुरस्तात् (८)[५]पुरशासनस्य ॥ ३० ॥

शरीरस्य अर्धशरीरम् ॥ ‘अर्ध नपुंसकम्” इति समासः । तन्न जतौति अर्धशरीरभाजा तया गौर्या तु स्त्रिग्धजनाशिषो ब अनाशीर्वादा अपि पश्चात् छता अधरीकृताः । ततोऽभ्यधिक फललाभादिति भावः ॥ २८ ॥

 इच्छेति । कृती कुशलः । सभायां सधुः सभ्यः । “सभाय य: इति यप्रत्ययः । अद्रिर्हिमवानिच्छाविभूत्योरुत्साहैश्वर्यः योरनुरूपं सदृशं यथा तथा तस्याः पार्वत्याः कृत्य कर्तव्यमश्च धयित्वशेषं निःशेषं कृत्वा। समाप्येत्यर्थः अशेषशब्दासक शेतीति रथन्तात् प्रत्ययः । सुहृदास्थितायां बन्धुजनाक्रा न्तायां सभायां संसदि दृषड्रस्य हरस्यागमनं प्रतीयत इरि तथोक्तः सन् ॥ “कर्मण्यण्” इत्यण् । तस्थौ स्त्रितः ॥ २८ ॥

 तावदिति । तावत् । यावन्नौरीप्रसाधनं क्रियते तत्काल एवेत्यर्थः । कुबेरशैले कैलासे । तदेव पूर्व तत्पूर्वं तच तर


  1. तस्यार्धशरीरलाभात् ।
  2. बन्धुजन
  3. आगमनं प्रतीत्य।
  4. वरस्य।
  5. स्वर ।