पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१०
कुमारसम्भवे

(३)[१]शान्तरीति विलोचनं यत्
(४)[२]अन्तर्निविष्टांमलंपिङ्गहारम्।
सान्निध्यपक्षे दैरितालमथ्या
सदैव जातं तिलकक्रियायाः ॥ ३३ ॥
यथाप्रदेशं भुजगेश्वराणां
करिष्यतामाभरणान्तरस्वम् ।
शरौरमात्र विवर्ति प्रपेदे
तथैव तस्थुः फणरत्नशोभाः ॥ ३४ ॥
द्वािपि नियूतमरीचिभासा
बाल्यादनविष्कृतलाञ्छनेन ।

 शमेति । शङ्करान्तरे ललाटास्थिमध्ये द्योतत इति तथोक्षम् । ‘शखो निधौ ललाटास्थ्”ि इत्यमरः । अन्तर्निविष्ट । मध्यगता अमल पिङ्गा तारा कनीनिका यस्य तत्तथोक्तम् । “तारकाक्ष्णः कनीनिका” इत्यमरः । यद्विलोचनं तद्विलोचन मेव हरतालमय्या वर्णद्रव्यविशेषविकारस्य तिलकक्रियाय- स्त्रिलकरचनायाः सन्निधिरेव सान्निध्य तदेव पवः साध्यम् । “पक्षः पार्श्वगरुसाध्यसञ्चयबलभित्तिषु” इति यादवः। तस्मिन् सान्निध्यपक्षे जातम् । प्रविष्टमित्यर्थः । अनेन ललाटलोचनमेव तस्य हरितालतिलकमभूदित्युक्तम् ॥ ३३ ॥

 यथेति । यथाप्रदेशं प्रदेशान् प्रकोष्ठादीननतिक्रम्याभरणन्तरत्वं काकङ्कणाद्याभरणविशेषत्वं करिष्यतां सम्पादयिष्यतां भुजगेश्वराणां शरीरमात्रं शरीरमव विकृतिं रूपान्तरं प्रपेदे। फ रत्नशीभांस्तथैव तस्थुः। तासां तथैवोपादेयत्वादिति भावः ॥३४॥

 दिवापीति । दिवा दिनेऽपि निघूमता उणें मीचिः


  1. नेणान्तरद्योति ।
  2. अन्तर्निविष्टानद ।