पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२११
सप्तमः सर्गः ।


चन्द्रेण नित्य प्रतिभिन्नमौल
चूडामणेः किं ग्रहणं हरस्य ॥ ३५ ॥
(५)[१]इत्यनुतैकप्रभवः प्रभावात्
(६)[२]प्रसिद्धनेपथ्यविधेर्विधाता।
आत्मानमासन्नगणोपनते
खङ्ग निषक्तप्रतिमं ददर्श ॥ ३६ ॥
स गोपतिं नन्दिभुजावलम्ब
शार्दूलचर्मान्तरितोरुपृष्ठम् ।
तद्भक्तिसंक्षिप्तषुहत्प्रमाण-
मारुह्य कैलासमिव प्रतये ॥ ३७ ॥

भासः किरणकान्तयो यस्य तेन बाल्यात् आपतनुत्वदनाविकसैलrध्नेग। अदृश्यमानकलखेनेत्यर्थः । चन्द्रेण नि त्य सर्व प्रतिभिन्नमौलेः सङ्गसमुकुटस् ४रस्य चूडामणेः ग्रहणं स्खौकारः किं किमर्थम् । चन्द्रचूडामणेर्देवस्य किमन्य घडामणिभिरिति भावः ॥ ३५ ॥

 इतीति । इतीयं प्रभावात्सामयप्रसिद्धस्य नेपथ्यविधेर्वषसंविधानस्य विधाता निर्माता । अतएवालतानामाचार्याणा मेकप्रभवो मुख्यनिधि: स देव प्रसन्नगणेन पार्नेस्थधर्मेण । प्रथमगणेनेत्यर्थः । उपनीत आनीते खड़े निषताप्रतिमं संसाप्रतिविस्वमात्मानं ददर्श। वौरपुरुषाणामिध आचारः ॥३२॥

 स इति । स देवो नन्दिभुजावलम्बौ नन्दिकेश्वरभुआवलग्नः सन् । शार्दूलचर्म या व्याघ्रचर्मणहरितमादितसुरु विशालं पृष्ठ‘ यस्य तं तथोक्तम् । "शार्दूलहौपिनौ ध्यान’ यमरः । तस्मिन् देवे भता संक्षिप्त सोचितं दृष्टप्रमाणं यस्य तं गोपतिं दृषभं कैलासमिवारुह्य प्रतस्थे चचाल ॥ ३७ ॥


  1. प्रययुत।
  2. प्रसिद्दनेपथ्यविधिः ।