पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२२२

एतत् पृष्ठम् परिष्कृतम् अस्ति
२२१
सप्तमः सर्गः ।


प्रसाधिकालम्बितमग्रपाद
माक्षिप्य काचिद्द्रवरागमेव ।
(३)[१]उत्सृष्टलीलागतिरा गवाक्षा-
दलक्तकाङ्कां पदवीं ततान ॥ ५८॥
विलोचनं दक्षिणमञ्जनेन
सम्भाव्य तद्वञ्चितवामनेवा।
तथैव वातायनसन्निकर्षे
ययौ शलाकामपरा वहन्ती ॥ ५९ ॥
जालान्तरप्रेषितदृष्टिरन्या
प्रस्थानभिन्नां न बबन्ध नौवीम् ।

 प्रसाधिकेति ॥ काचित् स्त्री प्रसाधिकयालङ्कर्व्यालम्बितम् रञ्जनार्थम् धृतं द्रवरागमेवार्द्रालक्तकमेव । अग्रश्वाश्सौ पादश्चाग्र पादः ॥ इति समानाधिकरणसमासः । ‘हस्ताग्राग्रहस्तादयो गुणगुणिनोर्भदाभदाभ्याम्” इति वामनः । तमाक्षिप्यकृ थोत्रुसृष्टलीलगतिमत्यक्तमन्दगमना सत्या गवाक्षाङ्गवाक्षपर्य तम्। पदद्वयमेतत् । पदवीम् अलक्तकाङ्कां लाक्षारसचि ततान ॥ ५८ ॥

 विलोचनमिति । अपरा स्त्री दक्षिणं विलोचनमञ्जनेन सम्भाव्यालङ्कत्य तद्वञ्चितम् तेनाञ्जनेन वर्जितं वामनेत्रं यस्याः सा तथोक्ता सती । तत्रैव तेनैव रूपेण शलाकामञ्जनकूर्चिकां वहन्ती बिभ्रती वातायनसन्निकर्वे गवाक्षममोपं ययौ ॥ दक्षिणग्रहणं संभ्रमादुत्क्रमश्चोतनार्थम्। “सव्यं हि पूर्व मनुष्या अनेइति श्रुते: ॥ ५९ ॥

 जालान्तरेति । अन्या स्त्री जालान्तरप्रेषितदृष्टिर्गवाक्ष-


(६) उन्मृष्ट

  1. उन्मृष्ट ।