पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२२
कुमारसम्भवे


नाभिप्रविष्टाभरणप्रभेण
हस्तेन तस्याबवलम्ब बासः ॥ ६० ॥
(४)[१]अर्धाचिता सत्वरमुत्थिताया:
पदे पदे दुर्निमिते गलन्तौ ।
कस्याश्चिदासौढसना तदानौ
मङ्गुष्ठमूलार्पितसूत्रशेषा ॥ ६१ ॥
तास मुहुँरासवगन्धगर्भ
व्याप्तान्तराः सान्द्रकुतूहलानाम्।

मध्यप्रसारितदृष्टिः सती प्रथनेन गमनेन भिन्नां नटितां नौवीं वस्त्रग्रन्थिम् । `नीवी परिपणे ग्रन्य स्त्रीणां जघंनवामसि इति विश्वः । न बबन्ध नाबभ्रत् । किन्तु नाभिं प्रविद्याभरणानां कङ्कणानां प्रभा यस्य तेन । प्रभेव नाभेरावरणम्भूदिति भावः । हस्तेन वासोऽवलस्य श्रुत्वा तस्थौ ॥ ६० ॥

 अर्धाचितेति । सत्वरं सवेगमुत्थितायाः कस्याश्चिदर्धमाचिता मणिभिर्गुम्फिता अर्धाचिता दुर्निमिते संभ्रमाद्दुःखेन निक्षिते ॥ “डमिव प्रक्षेपणे' इति धातोः कर्मणि तः । पदे पदे प्रतिपदम् । वीप्सायां द्विर्भावः । गलन्ती गलना सतौ रसना मेखला तदानीं तस्मिन्नवसरेऽङ्गुष्ठमूलेऽर्पितं लगितं स्त्रमेव शेषो यस्य: ससँtत् ॥ ६१ ॥

 तासामिति । तदानीं सान्द्रकुतूहलानां तासां स्त्रीणामासवगन्धो गर्भ येषां तैः । विलोलागि नेत्रस्येव भमरा येषु


६१-६२ लोकयोर्मध्यं लोकोऽयं दृश्यते ।
स्तमन्धयन्स तनयं विहाय विलोकनाय त्वरयां व्रजन्ती।
संप्रभुताभ्यां पदवीं स्तनाभ्यां सिषेच काचित्पयसा गवाम् ।

  1. अर्धाङ्किता।