पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२३३
सप्तमः सर्गः ।


आलोचनान्तं (८)[१]श्रवणे वितत्य
पीतं गुरोस्तद्वचनं भवान्या ।
निदाघकालोल्वण(६)[२]तापयेव
माहेन्द्रमम्भः प्रथमं पृथिव्या ॥ ८४ ॥
भुवेण भवों ध्रुवदर्शनाय
प्रयुज्यमाना प्रियदर्शनेन।
सा दृष्ट द्यननमन्नमय्य
सन्न(१)[३]कण्ठौ कथमप्युवाच ॥ ८५ ॥
द्य' विधिज्ञो न पुरोहितेन
प्रयुक्तपाणिग्रहणोपचारौ।

 आलोचनान्तमिति । भवस्य पत्रा भवान्या ॥ “इन्द्र वरुणभवशर्वरुद्र– इत्यादिना डीप् । आनुगागमश्च । प्रलोचनान्तं नेत्रान्तपर्यन्तम् ॥ “श्राङ मर्यादाभिविध्यः इत्यव्ययीभावः । श्रवणे श्रोत्रे वितत्य विस्तार्य तत् पूर्वोक्त गुरोः याज्ञिकस्य वचनं “सह धर्म चर” इति वाक्य' निदाघकाले ग्रीष्मकाल उल्वणतापयोकटसन्तापया पृथिव्या प्रथममात्रं माहेन्द्र' पार्जन्यमम्भ इव पीतम् । अत्यादरेण श्रद्धायः ॥ ८४ ॥

 ध्रुवेणेति । प्रियं दर्शनं यस्य । कर्मभूतस्य । तेन प्रियद ऍनेन ध्रुवेण शाश्वतेन भनें ध्रुवस्य नक्षत्रविशेषस्य दर्शनाय ॥ भुवो भभेदे क्लीबं तु निश्चिते शखते त्रिषु’ इत्यमरः । प्रयुव्यमाना दृश्यतामिति प्रर्यमाणा हीौसन की क्रिया हीनखरा सा बधूः कथमप्याननमुन्नमय्य दृष्ट इत्युवाच ॥ ८५ ॥


  1. श्रवणौ ।
  2. तप्तयेव ।
  3. कण्ठम्।