पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२३५
सप्तमः सर्गः ।

जायापतौ (४)[१]लैौकिकमेषशय
मार्दीक्षतारोपणमन्वभूताम् ॥ ८८ ॥
पत्रान्तलग्नैर्जलबिन्दु(५)[२]जालै-
राकृष्टमुक्ताफल(६)[३]जालशोभम् ।
तयोरुपर्यायतनालदण्ड-
माधत्त लक्षमः कमलातपत्रम् ॥ ८ ॥
द्विधाप्रयुक्तेन च वाद्येन
सरस्वतौ तन्मिथुनं नुनाव।

क्लप्त रचिता उपचाराः पुष्यरचनादयो यस्यां तां चतुरस्रवेद एत्य प्राप्य कनकासनस्थौ सन्तौ लौकिकं लोके विदितम् । आचारप्राप्तमित्यर्थः। अतएवैषणयमाशास्त्रम् । `तथापि लौकिकाचरं मनसापि न ल हुये” इति शास्त्रादवश्यकर्तव्यमित्यर्थः । इषेरिच्छर्थादनीयप्रीत्ययः । आर्द्रतारोपण मन्यभृताम् ॥ ८८ ॥

 पत्त्रान्तेति । लक्ष्मीः श्रीदेवी पत्रान्त षु दलप्रान्त षु लग्नैर्जलबिन्दुजालैराकृष्टाहृता सुक्ताफलजालेन प्रान्तलम्बिना सुक्ताकलापेन या शोभा सा येन तत्तथोक्तमायतं दीर्घ नालमेव दण्डो यस्य तत् कमलमेव आतपत्रं तत्तयोः उपरि प्रधत्त दधौ ॥ ८८ ॥

 द्विधेति । अथ सरखतौ वाग्देवी द्विध संस्कृतप्राकृतंरूपेण हैविध्येन प्रयुक्तेन उच्चारितेन वाञ्जयेन शब्दजालेन तत् । मिथुनं नुनाव तुष्टाव । *णु स्तुतौ’ इति धातोर्लिट् । केन कमित्याह-संस्कारैति । संस्कारेण शास्त्रव्युत्पथा पूतन प्रकृतिप्रत्ययविभागशडेन । संस्कृतेनेत्यर्थः। वरेण्यं वरयम्।


  1. लोकिकमेषितव्यम्।
  2. इन्।
  3. भक्तिशोभम्।