पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कुमारसंभवे


व्याहृता प्रतिवचो न सन्दधे
गन्तुमैच्छवलम्बितांशका।
सेवते स्म शयनं पराङ्युखौ
सा तथापि रतये पिनाकिनः ॥ २ ॥
कैतवेन (२)[]शयिते कुतूहलात्
पार्वतौ प्रतिमुखं निपातितम्।

दम् । कामसंवर्धकमित्यर्थः । ‘तरुगुल्मलतादगमकाले कुशलैः कृतम् । पुष्याद्युत्पादकं द्रव्य दोहदं स्यात्” इति शब्दार्णवे । तच्च तत् सुखं कामदोहदसुखम् अभूत् । हरस्वेति शेषः । नायिकानायकयोरन्योन्यानुभवदर्शनात् सुखमाविर्भवति । तच्च मदनोद्दीपकमिति रसविदां स्थितिः। तथा च हरस्य गौर्य नवोढायां खगोच रभावप्रयुक्तसाध्वसः दशना सुखमविद्भवति । तच्च मदनाकारं प्रादुर्बभूवेत्यर्थः तत्र रसाभावस्थाथिनः कार्यमनुभावः । तदुताम्-“रसाः गच्छन्ति संस्थानं यत्कार्यमुपलक्ष्यते । सोऽनुभावः” इति ॥१॥

 उक्त भवसाध्वसम् । तस्य सुखमयत्व' च वर्णयति-

 व्याहृतेति । स पावंत व्याहृता यत्किञ्चिदभिहिता सती प्रतिवचः प्रत्य त्तरं न सन्दधे । न ददावित्यर्थः। अवल- वितांशुका गृहीतवस्त्रा सतौ गन्तुम् अपसर्पतुम् ऐच्छत् इच्छति स्म । इषिधातोर्लङ् । ‘इषुगमियमां छः” इति छकारः । पराङ्ग ख सती शयनं सेवते स्म । अनभिमुखम्। शयिष्टेत्यर्थः । तथापि । इयं साध्वसात् प्रतिकूलचेष्टितार्थाः त्यर्थः । पिनाकिनः शिवस्य रतये सुखाय। बभूवेति शेषः । प्रातिकूल्यमपि तस्यानन्दकरमभूदित्यर्थः । एतन गवोढाया देव्या मौग्धडिजितं तन्ममत्वमवसेयम् ॥ २ ॥

 कैतवेनति । प्रिये भर्तरि कुतूहलात् । एषा किं करिषः


  1. शयरों ।