पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अष्टमः सर्गः ।


चतुन्मिषति सञ्जितं प्रिये
(३)[१]विद्युदाहतमिव न्यमीलयत् ॥ ३ ॥
नाभिदेशनिहितः सकम्पया
शङ्करस्य रुरुधे तया करः ।
तदुकूलमथ चाभवत् खयं
दूरमुच्छंसितनौविबन्धनम् ॥ ४ ॥
एवमालि निगृहीतसाध्वसं
शरो रहसि सेव्यतामिति ।
सा सखीभिरुपदिष्टमाकुला
नास्मरत् प्रमुखवर्तिनि प्रिये ॥ ५ ॥

तीति बुभुत्सयेत्यर्थः । कैतवेन कपटेन शयिते सुते सति पार्वती ! कर्ता । प्रतिमुखं यथा तथा निपातितम्। प्रियस्वापपरीक्षार्थं तदभिमुखं प्रवर्तितमित्यर्थः । चक्षुः स्वदृष्टिं समितम् उन्मिषति । पुनः प्रिये सहासं पश्यतीत्यर्थः । विद्यु दाहृतं विद्युत प्रतिष्ठतमिव न्यमीलयत् । साध्वसादिति भाव। एतेन किञ्चिद्ध्वसस्यापचयो व्यज्यते ॥ ३ ॥

 भाभीति । नाभिदेशनिहितः । नवमोचयेति शेषः । शक्रस्य करः स कम्यया वेपथुमत्या । प्रियकरस्पर्शादुत्पत्रसा विकभावयेत्यर्थः । तया पार्वत्या रुरुधे निवारितः । अथ च। तथापीत्यर्थः। तटं कूलं स्वयं स्खत एव दूरम् अत्यन्तम् उच्छ सितं स्रस्तं नौविबन्धनं नौवौग्रन्थिर्यस्य तत्तथाभूतम् अभवत् । रतिपारवश्यादिति भावः ॥ ४ ॥

 एवमिति । हे आलि सखि, पार्वति रहसि शङ्करः एवम् । खोपदिष्टप्रकारेणेत्यर्थः। निडीतसाध्वसं निरस्तभयं यथा


  1. विद्युतेव निहतं न्यमीलयत् ।