पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अष्ठमः सर्गः ।


चुम्बनेष्वधरदानवर्जितं
(५)[१]सन्नहस्तमदयोपगूहने ।
क्लिष्टमन्मथमपि प्रियं प्रभोः
दुर्लभप्रतिकृतं बधूरतम् ॥ ८ ॥
यन्मुखग्रहणमक्षताधरं
(६)[२]दत्तमव्रणपदं नखं च यत् ।
यद्गतं च सदयं प्रियस्य तत्
पार्वतो विषहते स्म नेतरत् ॥९॥

विधुरा अभूत्। तृतीयकराभावादिति भावः । एतेन किञ्चि वध्र्यादयो व्यज्यन्त ॥ ७ ॥

 चुम्बनेष्विति । चुम्बनेषु अधरदानवर्जितम् ओोष्ठार्पणरहितम् अदयोपगूहने निर्देयालिङ्गने सन्नौ स्तब्धौ हस्तौ करौ यस्मिन् तत्तथोक्तम् । तथा दुर्लभप्रतिकृतम् । प्रगल्भत्खन्नखदन्तताडनाद्य कृतप्रयत्नमित्यर्थः । अतएव क्लिष्टमन्मथं लज्जया उपरुद्धमदनमपि बध्वाः नवोढायाः रतं बधूरतं प्रभोः ईस्लरस्व प्रियम् । अभूदिति शेषः । “बधूः स्नुषानबढास्त्रीभार्यामृष्टाङ्गमसु च' इति विश्वः । अयं लज्जासाध्वसाभ्यां सघुचितोपचरत्वात् संतिष्टसम्भोगः । तदुक्तं भूपालेन-‘युवानौ यत्र संक्षिप्तसाध्वमत्रीडयादिभिः । उपचरन्निषेवन्त स संक्षिष्ट इतीरित” इति ॥ ८ ॥

 यदिति । पर्वती प्रियस्य सम्बन्धी प्रक्षतः अखतिः प्रधरः यस्झिन् तत्तथोक्तं यत् मुखग्रहणं मुखचुम्बनम् । अत्रणपदं लक्ष्मरहितम् । “‘पदं व्यवसितत्राणस्थानलविस्तुषु' इत्यमरः । दत्तं यच्च नखं नखकर्म। यत् सदयं रतं तत् सर्वं विषहते सहते स्म । न इतरत् विपरीतम् । प्रचछमिति यावत् । सत् चुम्बनं नखं सुरतं वा न सहते । नवो-


  1. विषहरुसदयोपगूधनम् ।
  2. दागमव्रणपदं नयस्व यत्।