पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कुमारसम्भवे


सखजे प्रियमुरो(५)[१]निपौडिता
प्रार्थितं मुखमनेन नाहरत् ।
मेखलाप्रणयलोलतां गतं
हस्तमस्य शिथिलं रुरोध सा ॥ १४ ॥
भावसूचितमदृष्टविप्रियं
(६)[२]चाटुमत् क्षणवियोगकातरम् ।

ज्ञातमन्मथरसा अनुभूतसुरतसुखास्वादा सती ॥ ‘अस्त्रहे विरसमाहुःइति शब्दानुशासने । शनै:शनै: क्रमेण रतौ तं दुःखशीलतां प्रतिकूलखभवतां मुमोच ॥ “शीलं स्वभावे सङ्कवृत्त” इत्यमरः । मध्यमावस्यां प्राप्तेत्यर्थः ॥ १३ ॥

 तुल्यलज्जास्मरत्वमेवाह ------

 सस्यज इति । सा पार्वती उरोनिपीडिता उरसि गाढमालिष्टा सती प्रियं सखजे । न तु निष्यन्दमास्तेत्यर्थः । अनेन स्अरातिशयः सूचितः । अनेन प्रियेगण प्रार्थितं चुम्बनार्थं याचिततम् । “यच्शयामभियाने च प्रार्थना कथ्यते बधेःइति केशवः॥ मुखं न अहरत् । मेखलायां प्रणयः परिचयः ॥ "प्रणयख्यात्परिचये याच् आयां सुहृदेऽपि च’ इति यादवः । तत्र लोलतां चञ्चलतां गतम् अस्य प्रियस्य हस्त शिथिलं रुरोध न्यवारयत् । न तु निर्भरमिति भावः । अत्र सहमप्रतीकाराभ्यां तुल्यलशास्मरत्व' व्यज्यते ॥ १४ ॥

 अथ देव्याः प्रगल्भावस्थां दर्शयितु' तयोः समानरागित्वं तावदाह--

 भावेति । तयोः शिवयोः कैश्चित् कतिभिञ्चिदेव दिवसैः । भाववचतं भावैः चेष्टाभिः कटाक्षनिक्षेपादिभिः सञ्जातम् अदृष्टम् विप्रियम् अप्रियाचरणं यत्र तत्तथोक्तं चाटूनि प्रियोक्तयः यस्मिन् सन्ति तत् चाटुमत् । भूतार्थे मतुप्॥ वयवियोगा।


  1. निपौड़नम्, निपीड़ितम् ।
  2. दाबी भा, चाटु तत्च।