पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२५२

एतत् पृष्ठम् परिष्कृतम् अस्ति
११
अष्टमः मर्गः

चुम्बनादलकचूर्णादूषितं शङ्करोऽपि नयनं ललाटजम् । उच्छ्वसत्कमलगन्धये ददौ पार्वतोवदनगन्धवाहिने ॥ १९ ॥ एवमिन्द्रियसुखस्य (२)वर्त्मनः सेवनादनुगृहौमन्मथः । शैलराजभवने सहीमया (३)मासमात्रमवसद् वृषध्वजः ॥२०॥ सोऽनुमान्य हिमवन्तमात्मभू- रात्मजाविरहदुःख(४)पौडितम् । भाव उक्तः। तदुक्ताम्-“केगाधरादिसंग्रहणे मोदमानापि मानसे दुःखितव बहिः कुप्येत्तत् कुट्टिमम्” इति ॥ १८॥ चुम्बनादिति । अथ शङ्कगोऽपि चुम्बनात् चुम्बनार्थित: पलकचूर्गीन दूषितम् उपहतं ललाटजं नयनम् उच्कूमत्कमस- गक्ष्वये विकचारविन्दगन्धधारिणे ॥ “लपमानाञ्च" इतौकारः। पावत्याः वदनगन्धवाहिने। फूत्कारमारुतायेत्यर्थः । ददौ । रजोनिःसारणार्थ तदाभिमुख्ये म स्थापितवानित्यर्थः । एतेन दिव्याः प्रियवशंवदत्वमुत्रम्। अव हरचक्षुष्यलकचृर्णाकथनात् देव्या उपरिभाव: सुचितः ॥ १९॥

एवमिति ॥ वृषध्वजः हरः एवम् उत्तरौत्या इन्द्रियाचं सुखस्य अनुकूलस्य वत्मनः मार्गस्थ । स्त्रीप्रसास्वेत्यर्थः । सेव- नात् परिभोगात् अनुहोतमन्मथः पुनरुज्जीवितमदन: सन्। उमया सह शैलराजभवने हिमवङ्गे हे मासमात्रम् अवसत् । अत्यन्तसंयोग द्वितीया । मासमामिति बधूवशीकरणाकाल- कप्तिः प्रदर्शिता ॥ २०॥ (२) चात्मनः। (8) मासमकम् । (२) खेदितम् । .