पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२५३

एतत् पृष्ठम् परिष्कृतम् अस्ति
१२
कुमारसम्भवे


तव तत्र विजहार (५)सञ्चरन्
अप्रमेयगतिना ककुद्मता ॥ २१ ॥
मेरुमेत्य (६)मरुदाशुवाहनः
पार्वतीस्तनपुरस्कृतः कृती ।
हेमपल्लवविभङ्ग (७)संस्तरान् ।
अन्वभूत् सुरततत्परः क्षपाम् ॥ २२ ॥
(८)पद्मनाभवलयाड़ि्कताश्मसु
प्राप्तवत्खमृतविप्रषो नवाः ।
मन्दरस्य कटकेषु चावसत्
पार्वतीवदनपद्मषट्पदः ॥ २३ ॥

 स इति । स आत्मभूः शिवः आत्मजायाः दुहितुः विरहदुःखेन पीडितं हिमवन्तम् अनुमान्य अनुमतं व्कत्वा अप्रमेयगतिना अपरिच्छेद्यगतिना ककुद्मता वृषेण सञ्चरन् सञ्चरमाणः तत्र तत्र नानादेशेषु विजहार ॥ २१ ॥

 मेरुमिति । मरुदाशुवाहनः पवनजवनवाहनः पार्वतीस्तनाभ्यां पुरस्कृतः । पार्वतीपुरोगतयाश्रिष्ट इत्यर्थः । अन्वभुदित्यनेनान्वयः। व्कती कुशलो हरः मेरुम् एत्य हेमपल्लवानां विभड़्गाः खण्डाः ते एव संस्तरः तल्पं यस्यां तां तथोत्कां क्षपां रात्रि सुरततत्परः सुरतासत्कः सन् । अन्वभूत् ॥ २२ ॥

 पद्मनाभेति । पार्वतीवदनपद्म षट्पदः। प्रियामुखरसाखादलोल इत्यर्थः। सः हरः । पद्मं नाभि: यस्य स पद्मनाभः विष्णुः ॥ “अच्प्रत्यन्वयपूर्वात्सामलोम्त्र” इत्यवाजिति योगविभागात्समासान्तः ॥ तस्य वलयैः अङ्किताः अश्मानः येषां


(५)संपतन्| (६)मरुदाशुगोक्षक: | (७)संस्तराम् | (८)पद्मनाभचरष |