पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२६०

एतत् पृष्ठम् परिष्कृतम् अस्ति
१९
अष्टमः सर्गः ।


एष वृक्षशिखरे कृतास्पद:
(१)[१]जातरूपरसगौरमण्डलः।
हीयमानमहरत्ययातपं
पीवरोरु पिषतीव बर्हिणः ॥ ३६ ॥
पूर्वभागतिमिरप्रवृत्तिभिः
(२)[२]व्यत्रुपदकंमिव जातमेकतः।
खं हृतातपजलं विवखता
भाति किञ्चिदिव शेषवत्सरः ॥ ३७ ॥
(३)[३]आविशद्भिरुटजाङ्गणं दृगैः
मूलसेकसरसैश्च वृक्षकैः।

 एष इति ॥ हे पीवरोरु । एष वृक्षशिखरे वृक्षाग्रे कृतास्पद: कृतस्थितिः जातरूपरसगौरमण्डलः आतपरूषणाकानद्रववत् श्ररुणबईमण्डलः ॥ ‘चामीकरं जातरूपं महारजतकावने” इत्यमरः ॥ बर्हमस्यास्तीति बर्हिणः मयूरः ॥ “'फलबर्हाभ्यामिनज्वक्तव्यः” । हीयमानं क्षीयमाणम् अहरत्ययातपं दिगान्तातपं पिबतीव । कथमन्यथा क्षीयमाणत्वमिति भाव:॥ ३६ ॥

 पूर्वभागेति । पूर्वभागे प्राचीमूले तिमिरप्रवृत्तिभिध्वतपसरैरेकतः व्यक्तपडकं स्फुटपङ्कमिव जातं तथा विवस्वता तम् पातपः एव जलं यस्य तत्तथोक्तं खम् आकाशं किञ्चित् ईषत् शेषोऽस्यास्तीति शेषवत् शुष्क सरः इव भाति ॥ ३७ ॥

 आविशद्भिरिति । उटजद्भणं पर्णशालाङ्गणम् आविशक्तिः । प्रविशद्भिरित्यर्थः । “पर्णशालोटजोऽस्त्रियाम्” इत्य-


  1. जातरूपरसगौरमण्डलम्।
  2. लग्नपमिव ।
  3. आविशन्निरुटजाङ्गणे।