पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२३
अष्टमः समी. ।


रक्तपीतकपिशाः पयोमुचां
कोटयः कुटिलकेशि भान्यमूः ।
द्रक्ष्यसि त्वमिति (८) [१]सान्ध्यवेलया
(९)[२]वर्तिकाभिरिव साधुवर्तिताः ॥ ४५ ॥
सिंहकेसरसटासु भूभृता
पल्लवप्रसविषु द्रुमेषु च।
पश्य (२) [३]धातुशिखरेषु चात्मना
संविभक्तमिव साध्यमातपम् ॥ ४६ ॥

इयं सध्या ते रविम् आपदि अस्तसमये कथं नानुयास्यति । अनुयास्यत्येवेत्यर्थः । सम्पदसम्यदोस्तुल्यरूपमेव साधूनामिति भावः ॥ ४४ ॥

 रक्तेति । हे कुटिलकेशि ॥ “स्वाङ्गाच्चोपसर्जनादसंयोगोधात्’ इति ङीप् ॥ अमूः पुरोगताः रताः पीताः कपिशाश्च (ऊपतकपिशः । नानावर्णा इत्यर्थः । चायं द्वन्द्वः । न तु 'वर्षा वन” इति तत्पुरुषः सामानाधिकरण्याभावात् । पयोमुचां कोटयः आश्रयः ॥ ‘स्यात्कोटिरश्चौ चापाग्रे संख्याभेदप्रकर्षेयोः इति विश्वः । त्वं द्रक्ष्यसि इति हेतोः अनया साध्यवेलया। सन्ध्ययेत्यर्थः । “सन्धिवेलय” इति क्वचित्पाठः । गर्तिकाभिः चिषशलाकाभिः साधुवर्तिताः उत्पादिताश्च भान्ति ॥ ४५ ॥

 सिंहेति । सिंहानां केसराणि स्कन्धरोमणि तान्येव सटाः टिः सासु ॥ “सटा जट केसरयोः ‘ति विश्वः । अथवा सटा


  1. सन्ध्यमानया।
  2. वर्णिकाभिरिव साधुमकिताः।
  3. धातुशिखरेषु चामनः, वास्तशिखरे विवखता, धातु9 भानुना ।