पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५
अष्टमः सर्गः ।


निर्विभुज्य दशनच्छदं ततः
बाचि भर्तुरवधीरणापरा ।
शैलराजतनया समीपगा
माललाप (७)[१]विजयामहेतुकम् ॥ ४६ ॥ ।
ईश्वरोऽपि दिवसात्ययोचितं
मन्त्रपूर्व(८)[२]मनुतस्थिवान् विधिम् ।
पार्वतौमवचनामसूयया
(६)[३]प्रत्युपेत्य पुनराह सस्मितम् ॥ ५० ॥

एतनसभ्याविधये मुहूर्तम् अनुमन्तुम् अर्हसि । हे वला , वादिगि सधैभाषिणि । विनोदनिपुणः कालाक्षेपचतुः सख़ौजन: त्वां विनोदयिष्यति । विनदशब्दात्तकरोतीति णिच् ॥ ४८ ॥

 निर्विभुज्येति । ततः भर्तुर्वाचि वचने अवधीरणापरा अवशापरा शैलराजतनया पार्वती । छाद्यते अनेनेति छदः ॥ “पुंसि संज्ञायां घः प्रायेण’ इति घप्रत्ययः । दशनच्छदं निर्विभुज्य कुटिलौत्य समौपगां विजयां विजयाख्यां सखौम् अहैतुकं निर्निमित्तम् पाललाप । न तु रोषाद्भर्तुरुत्तरं ददावि- त्यर्थः ॥ ४९ ॥

ईश्वर इति । ईश्वरोऽपि दिवसात्ययोचितं सायंकालोचितं विधिं सन्ध्यावन्दगरुत्य मन्त्रपूर्वम् अनुतस्थिवान् अनुष्ठितवान् ॥ तिष्ठतेः क्वसुप्रत्ययः । असूयया सन्ध्यावन्दनजनितप्रयया अवघनाम् अभाषमाणां पार्वतीं पुनः प्रत्युपेत्य सस्मि तम् आह ॥ ५० ॥


  1. विजयां सहेतुकम्।
  2. अनुतिष्ठवान्।
  3. सोऽभ्युपेत्य।