पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२९
अष्टमः सुन: ।


सर्वमेव तमसा समीकृतं
धिङ्गमहत्त्वमसतां (७)[१]हृतारम् ॥ ५७ ॥
(८)[२]नूनमुन्नमति यज्वनां पतिः
शार्वरस्य तमसो निषिद्धये ।
पुण्डरीकमुखि (९)[३]पूर्वदिषुःखं
कैतकैरिव (१)[४]रजोभिरादृतम् ॥ ५८ ॥
मन्दान्तरितमूर्तिना निशा
लक्ष्यते शशभृता सतारका ।

सम्बन्धलभ्यते । तत्सर्वमेव तमसा समीक्षतं दुर्लक्ष्यविशेषं कृतम्। तथाहि। हतम् अन्तरं विशेषो येन तत् हतान्तम् असताम् असाधनां महत्त्वं दृष्टिं धिक् ॥ धिकशब्दयोगाद्वितीया ॥ समत्वेन परगतिविशेषतिरस्करणमसतां खभाव इति सुप्रसिद्धम्। तमसोऽपि तथा महत्त्वं धिगित्यर्थः ॥ ५७ ॥

 नूनमिति । यच्चान: विधिनेष्टवन्तः । ‘यज्वा तु विधि नेष्टवान्” इत्यमरः । “सुयजोर्डं निर्” इति निप्प्रत्ययः । तेषां पतिः प्रियः। दर्शपूर्णमासादियागप्रवृत्तिहेतुत्वादिति आव । शार्वरस्य शर्वर्यां भवस्य तमसो निषिद्धये निरामाय गम् उनमति उदेति । कुतः। हे पुण्डलैकमुखि । पूर्वस्याः दिशो सुख' पुरोभागः पूर्वदिशंखकेतक्या इमानि केतकानि मैः रजोभिः परागैः आवृतमिव दृश्यते इति शेषः । अतो ननसुदेति चन्द्र इति सम्बन्धः ॥ ५८ ॥

 मन्दरेति ॥ सतारका निश मन्दरान्तरितमूर्तिना


  1. तान्तरम्, अनन्तरम् ।
  2. नूनमुच्चयति ।
  3. पश्य दिक्षु,खम्, दि,ख यथा ।
  4. रजोभिरादृतम्।