पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३१
अष्टमः सर्गः ।


(३)[१]विप्रकृष्टविवरं हिमांशु ना
चक्रवाकमिथुनं विडम्बते ॥ ६१ ॥
(४)[२]शक्यमोषधिपतेर्नवोदयाः
कर्णपूररचनाकृते (५)[३]तव।
अप्रगल्भयवसूचि(६)[४]कोमला
श्छेत्,मग्रनखसंपुटैः कराः ॥ ६२ ॥
अङ्कुलीभिरिव केशसच्चयं
सन्नियुद्ध तिमिरं मरीचिभिः ।

पश्य । रात्रौ वियति सरोजले चेन्दोर्विम्बप्रतिबिम्बौ विरहाटु दूरवर्तिनौ चक्रवाकाविव दृश्येते इत्यर्थः ॥ ६१ ॥

 शक्यमिति । नवोदयाः सद्य उत्पादितः अप्रगल्भयवसूचिकोमलाः अकठोरयवाडुरसुकुमाराः ओषधिपते: इन्दोः कर: तव कर्णपूररचनाकृते कर्णावतंसनिर्माणक्रियायै । सम्यदादित्वाद्भावे किर् । अग्रनखसंपुटैः नखाग्रसभेदैः छेत्तु’ शक्यम् । शक्य इत्यर्थः । `शकिसहोश्च' इति कर्माणि यप्रत्ययः । शक्यमिति विपरीतलिङ्गवचनस्यापि सामान्योपक्रमात् कर्माभिधायकत्वम् । पश्चात्कर्मविशेषाकाड्यां करा इति निर्देशो न विरुध्यतें । यथाह वामनः-‘शक्यमिति रूपं लिङ्गवचनस्यापि सामान्योपक्रमत्वादिति । अत्र प्रमाणम्-“शक्यं मांसेनापि सुप्रतिहन्तुमिति मायाकारप्रयोगः” इति ॥ ६२॥

 पछलीभिरिति । शशी चन्द्रमाः । नायकस्तु प्रतीयते । अनुलभिः केशसञ्चयमिव मरीचिभिः तिमिरं सलिए


.

  1. विप्रकृष्टविधुरम्, विप्रकृष्टविरहम्, विप्रयत्तववरम् ।
  2. शक्य योषधिपतेर्नवोदयः ।
  3. गवाः।
  4. कोमलछ तुमशनखसंपुटैः करः।