पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३३
अष्ठमः सर्गः ।


विक्रिया न खलु कालदोषजा
निर्मलप्रकृतिषु स्थिरोदया ॥ ६५ ॥
उन्नतेषु शशिनः प्रभा थिता
निम्नसंश्चयपरं निशातमः।
नूगमात्मसदृशी प्रकल्पिता
(१)[१]वधसैव गुणदोषयोर्गतिः ॥ ६६ ॥
चन्द्रपादजनितप्रवृत्तिभिः
चन्द्रकान्तजलबिन्दुभिर्गिरिः।
मेखलातरुषु (२)[२]निद्रितानमून्
बोधयत्यसमये शिखण्डिनः ॥ ६७ ॥

यत्र स्वधमण्डलो भवति तद्वदिति भावः । । तत्र प्रथमार्थे समासोक्तिरलङ्कारस्तस्यार्थान्तरन्यासेमाङ्गाङ्गिभावेन सङ्गर॥६५॥

 उन्नतेष्विति । शशिम: प्रभा चन्द्रिका उन्नतेषु अद्भुिजदिषु स्थिता । निशातमस्तु निम्नसंश्रयपरं गर्तादिचगप्रर्षे णम्। तथाहि। वेधसा गुणदोषयोः आत्मसदृशी स्वभावानुरूपा मतिः प्रवृत्तिः प्रकल्पितैव मनु। तेजस्ज़िन उनमन्ति अधिगस्तु मेघन्तौति भावः ॥६६ ॥

 चन्द्रपादेति । गिरिः हिमाद्रिः चन्द्रपादैः इन्दुकिरकैः अनितप्रकृतिभि: जनितप्रसरैः चन्द्रकान्तमणमजलबिन्दुभिः। |जरलैः । मेखलातरुषु निद्रितान् सञ्जातनिद्न् । तारकादिवादितच् । अमून् शिखण्डिनः मयूरान् प्रसमये प्रकाले बोधयति। इन्दुकिरणसम्यर्कादुपरिचद्रमणिस्कन्देष्वधोद्देशयाः शिखण्डिनो वृष्टिमयाज्जाग्रतौत्यर्थः। शिखण्डिग्रहणनितरअङन्तामा कुलालनिलयत्वादिति भावः ॥ ६७ ॥


  1. वेधसा हि, वेधसेव।
  2. निद्रितानिमान्।