पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३६
कुमारसम्भवे


शक्यमञ्जलिभि(२)[१] रुतैरधः
शाखिनां पतितपुण्(३)[२]पशलैः।
पत्रजर्जरशशिप्रभालवै-
रेभिरुत्कचयितु’ (४)[३]तवालकान् ॥ ७२ ॥
एष (५)[४]चारुमुखि (६)[५]योगतारया
युज्यते तरलबिम्बया शशौ।
साध्वसादुपगतप्रकम्पय
कन्ययेष नवदीक्षया वरः ॥ ७२ ॥

 शक्यमिति । अञ्जलिभिः उद्धृतैः उच्चितैः शाखिनाम् अधः पतितपुष्यवत् पेशलैः कोमलैः । तथा भमकरैरित्यर्थः । एभिः पवैः जर्जरा शकलिता शशिप्रभा चन्द्रिका तस्याः लवैः। खण्डः। तरुतलेषु पत्नन्तराललक्ष्यज्योत्खलञ्चैरित्यर्थः। तवालकान् उत्कचयितु’ बघूम्॥ “कच दीप्तिबन्धनयोःइति धातोस्तुमुन्प्रत्ययः । शक्यम् । शक्य इत्यर्थः । शक्यमिति लिङ्गवचनस्य सामान्योपक्रमादित्याद्यनुपदमेवोक्तम् ॥७२॥

 एष इति। हे चारुमुखि हे उज्वलानने ॥ “स्वाङ्गश्चोषसर्जनादसंयोगोपधात्” इति उप् ॥ एष शशी तरलबिम्बया स्फुरमण्डला योगतारया। प्रत्यहं यया युज्यते सा योगतारा। नित्यनक्षत्रेणेत्यर्थः । साध्वसात् नवसङ्गमभयात् उपगतप्रकम्यया वेपथुमत्या नवदीक्षया नवोद्वाहया कन्यया। बरो वोढेव युज्यते संगच्छते । युजेर्दैवादिकत्वात्कर्तरि लट् ॥ ७३ ॥


  1. उत्थितैः।
  2. कोमलैः ।
  3. तवालकम्, तवालकाः।
  4. चन्द्र।
  5. योग्य तारया, पख तारया।