पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४१
अष्टमः खगः ।


तत्र हंसधवलोतरकुटं
जाह्नवीपुलिनचारुदर्शनम्।
अध्यशेत शयनं प्रियासखः
शारदाभमिव रोहिणीपतिः ॥ ८२॥
(३}[१]किष्टचन्द्रमद्यैः कचग्रहै:
(४)[२]उत्पथार्पितनखं समत्सरम् ।
तस्य तच्छिदुरमेखलागुणं
(५)[३]पार्वतरतमभूददृप्तये॥ ८३ ॥

 तत्रेति । तत्र मणिभवने हंसवत् धवलः उत्तरच्छदः प्रच्छदपटो यस्य तत्तथोक्तं जावीपुलिनमिव चारुदर्शनं शयनं शय्यां रोहि णपतिः चन्द्रः शरदि भवं शारदम् अध मेघमिव । शरद्वग्रहणं धावस्थार्थम् । प्रियासखः सन् । प्रियया सहेत्यर्थः । ध्यशेत शयितवान् । "अधिशीङ्स्थासां कर्म ” इति कर्मत्वम् । रोहिणीग्रहणसमर्थादिन्दोरप्यधरोडणे रोहिणीसहिथमनुसन्धेयम् ॥ ८२ ॥

 लिटेति । अदयैः निर्दयैः कचग्रहैः केशकर्षणैः क्लिष्टचन्द्रं पैौड़ितहरचन्द्रम् उत्पथम् उन्मर्यादम् अर्पिता नखा यस्मिन् । तत् समसरम् अन्योन्यविजिगीषपूर्वकं छिदुरा: स्वयमेव |छिद्यमाना मेखलगुण यस्मिन् तत्तथोक्तम् । ‘विदिभिदि|छिदेः कुरच् ” इति कुरच्प्रत्ययः । “कर्मकर्तरि” इति काशिका । पार्वतीरतं तस्य वरस्य अध्रप्तये अभूत् । वये गभूदिति भावः ॥ ८३ ॥


  1. लिटुकेशमवलुप्तचन्दनम् ।
  2. व्यत्ययार्पित, व्युत्पथार्पित।
  3. पार्वतरतमभूग वप्तये।