पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६५
नवम सर्गः ।


तौ पारिजातप्रसवप्रसङ्गः
मंत्र सिषेवे गिरिजागिरीशौ ॥ ३८॥
पिनाकिनापि स्फटिकाचलेन्द्रः
कैलासनामा कलिताम्बरांशः ।
श्रुतार्धसोमो(१)[१]द्युतभोगिभोग:
विभूतिधा ख इव प्रपेदे ॥ ३९ ॥

मान्द्योतिः । तथा पारिजातस्य कल्पतरोः सम्बन्धिनां प्रसवानां पुष्याणां प्रसङ्गः सम्बन्धो यस्य तथाभूतः । एतेनास्त्र सौगध्योक्तिः । म रुत् पवन: । कर्ता । तौ गिरिजागिरीशौ पार्वतीपरमेश्वरौ कर्मभूतौ सिषेवे परिचचार । आराधयामासेत्यर्थः ॥ ३८ ॥

 पिनाकिमेति । पिनाकोऽस्यास्तति पिनाकी तेन हरेणापि कब्र। कलिप्तः सहृष्टः अम्बरांशः आकाशस्कन्धदेशः येन तथोतः । अनेनास्य अवक्षत्व' गम्यते । अन्यत्र कलितः व्याप्तः अम्बरांशः आकाशभागः येन तथोतः । आकाशमयैकमूर्ति त्वादिति भावः । अर्ध: यः सोमः चन्द्रः सोऽस्यास्तीति अर्धसोमः हरः च श्रुत: येन । गिरीशः कैलासवासीति भावः । अन्य थुतः यतः अर्धसोमः ऽशिखकः येन तयोः। गिरीशस्य चन्द्रशेखरत्वादिति भावः । अबुतः विचढः भोगिनां सुखभोगनिरतानां भोगः भोग्यवस्तु यन्न तथाभूतः। देवनिलयत्वादिति भावः । अन्यत्र अप्तः भोगिनां सर्पाणां भगः देशः यत्र । सर्पभूषणे महादेव इति भावः । विभूतिं धरतौति गिक्तिधारौ। शश्वद्विमनित्यर्थः। अन्यत्र विभूतिं भज धरतीति विभूतिधरौ भस्मीतशरैः। "भूतिर्भवनि सम्यदि” इत्यमरः । तथा कैलासनामा स्कटिकानां रजतमां


  1. ऋतभोगिभोगः ।