पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८३
दधमः सर्गः॥


महारजटाजूटवासिनौ पापनाशिनौ ।
(७) [१]सरागान्वयनिर्वाणकारिणौ धर्मधारिणौ ॥३०॥
विष्णुपादोदकोदूता ब्रह्मलोकादुपागता।
त्रिभिः स्रोतोभिरथान्तं ८)[२]पुनाव भुवनत्रयम् ३१ ॥
जातवेदसमायान्तमूर्मिहस्तैः (९)[३]समुत्थितैः।
(१)[४]आजुहावार्थसिद्धं तं सुप्रस्राद्धरेव सा ॥३२॥

 महेश्वरेति । पुनश्च महेश्वरस्य हरस्व जटाजूटे कपर्दे वासिगी वासकारिणी पुनश्च पापनाशिनी पापक्षयकारिणौ । पुनश्च रागेण सह वर्तमानस्य सरागस्य विषयानलस्य अन्वयस्य वंशस्यापि निर्वाणकारिण मोक्षविधायिनौ। सुद्यामां किमु वाष्यमिति भावः । पुनश्च धर्म धारयतीति धर्मधारिणी । इयं जधर्मेण गङ्खायिनो धार्मिकान् करोतीति भावः ॥३०॥

 विष्णुति । पुनश्च विष्णोर्नारायणस्य पादोदकात् चरणसखिलात् उभूता जाता । विष्णुपादोद्भवा गङ्गति भावः । पुनश्च बलोकात् उपागता इव पतिता। पुनश्च त्रिभिः स्रोतोभिः खर्गमर्यपातालगामिभिरिधर्थः । प्रवाहैः भुवनत्रयं त्रिभुवनम् प्रश्रान्तं निरन्तरं यथा तथा पुगना पवित्र कुर्वाणेश्वर्थः ॥ ३१ ॥

 जातेति । सा गङ्गा। कर्न। सुप्रसादस्य सुप्रमुखतायाः धरा बारिणौव सा गङा । कयी । समुत्थितैः उच्चलितैः कर्मय एव इस्खा: ऊर्मयो हप्ता इव वा तैः जर्मिहस्तैः करणैः आयातम् गच्छन्तं तं जातवेदसं वशिम् अत्रैविधे वार्थसम्पादनाय प्रजुहाव गतवती। हस्तप्तङनाद्धनं लोके प्रसिद्धमिति शवः ॥ ३२ ॥


  1. सागरान्वथ ।
  2. पुनाति ।
  3. समुचितैः ।
  4. आजुहावास्य संसिद्धे सुप्रसादादव या ।