पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९१
दशम: सर्ग: ।


चरितार्थ खमात्मानं बहु ता मेनिरे ख़ुदा ॥ ५३ ॥
कृशानुरेतसो रेतस्तासामभिकलेवरम् ।
अमोघं सञ्चचाराथ सद्यो गङ्गावगाहनात् ॥५४॥
रौद्र' सुदुर्धरं धाम दधाना दहनात्मकम् ।
परितापमवापुस्ता मग्ना इव विषाम्बुधौ ॥५५॥
अक्षमा (७)[]दुर्वहं वोडुमम्बुनो बहिरातुराः ।
(८)[]अग्निं ज्वलन्तमन्नता दधाना इव निर्ययुः ॥५६॥

आप्यायां सुखेन लब्धं शक्यायां तत्र ! गङ्गायां मन्दाकिन्यां श्रुत्वा अवग। ह्य स्वं निजम् आत्मानं मुदा हर्षेण बहु यथा था चरितार्थ कृतकृत्यं मेनिरे ज्ञातवत्य इत्यर्थः ॥ ५३ ॥

 क्कशनुतप्त शत ॥ अथ अनन्तर गङ्गया: अवहनम् मात् हेतोः अमोघं सफलं कृशानुरेतसः हरस्य रत: वौर्यम्। वर्छ । तासाम् उक्तानां षश्च कृत्तिकानाम् अभिकलेवरं कले षु देहेषु। विभक्त्यर्थऽव्ययभावः। सद्यः तत्क्षणमेव सञ्चार संलग्नम् । प्रविवेशेत्यर्थ: ॥ ५४ ॥

 रीद्रमिति । दहनात्मकम् अग्निमयम् अतएव सुदुर्धरं दुर्वहं रौद्र रुद्रसम्बन्धि धाम तेजः दधमः वहन्त्य. ता: इत्तिफ: विषस्य हलाहलस्य अस्ब्धौ सागरे मग्नाः पतित व। त्युत्प्रेक्ष। परितापं सन्तापम् अवापुः प्राप्तवत्यः । धीरान्तर्गतमेट्रतेजसो प्रबल क्लेशजनकत्वादिति भावः । ५५ ॥

 अक्षमा इति । दुर्वहं वोढमशक्यं तत् पूर्वीत ' धाम तेजः गेटु धर्तुम् अक्षमाः असमर्थाः अतएव आतुराः पौडिताः।


  1. दुर्धरम् ।
  2. अस्ति' ज्वलन्तमन्तःस्थं दधाना इव निर्ययुः, निर्ययुः सहितः शीन कृत्तिका विस्मयान्विताः।