एव रत्नं युज्यते सम्भवतौति सत्यं याथार्थं विचारयल अवधारयेत्यर्थः ॥ ११ ॥
अत इति । अतः हेतोः अवहितेन अवधानेन। भावे सत्वादिशेथपदमेतत् । वृत्तं वृत्तान्तं विवरणमिति यावत् । ऋष्य शृणु आकर्णयंति यावत् । मया । कर्ता । अग्नौ अनले यत् बीजं बौएँ निहितम् अर्पितं तत् बौजं त्रिदशापगायां मन्दाकिन्यां अन्तः मध्ये संक्रान्तं निहितम् । अग्निनेति शेषः। अवगाहे खाने सति ततः गङ्प्तः कृत्तिकासु संक्रान्त लम्बम् ॥ १२ ॥
गर्भत्वमति । तत् पूर्वोक्तम् अमोघं सफलम् प्रव्यर्थमिति यावत्। बौजं गर्भस्य भावः तस्वं गर्भत्व' कुक्षिस्थप्राणित्वम् आप्त' प्राप्तम् । ताभिः कृत्तिकाभिः प्रमोघं तत् एतत् वौनं शरस्तम्बमधि अधिशरस्तम्बं शरवणेपरीत्यर्थः । म्यधायि निश्चितं संक्रान्तमिति यावत् । तत्र शरस्तम्बे अयम् अशेवर चराचरस्त समस्तस्थावरजममयस्य जगतः अभूतपूर्वः पूर्वम् अभूतः महीशवः महानन्दस्तुरूप इत्वर्थः। शिशुरिति शेषः। बभूव जात॥ ९३ ॥