पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३४४

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०३
एकादशः सर्गः ।


प्रमोदबाष्पाकुललोचना सा
न तं ददर्श क्षणमग्रतोऽपि ।
परिस्ठशन्तौ करकुड्मलेन
सुखान्तरं प्राप किमप्यपूर्वमृ ॥ १८॥
(५)[१]सुविस्मयानन्दविकखरायाः
शिशर्ग लद्वाग्रतरङ्गितायाः ।
विटश्च वात्सल्यरसतराया
देव्या (६)[२]शोरीं चरतां जगाम ॥ १८ ॥

 प्रमोदेति । सा पार्वती । प्रमोदस्य आनन्दस्य सम्बन्धिभिः बाष्पैः सुरुभिः व्याकुले पूर्णत्वात् दर्शनासमर्थं लोचने नयने यस्व: तथोक्ता सती अतएव अग्रतः पुरतः तिष्ठन्तमपीति शेषः । तं सुतं क्षणं क्षणकालं न तु चिरमिति भावः । ददर्श । अथच कर एव कुड्मलं कलिका तेन करणेन परिस्पृशन्तौ स्म कुर्वती सती किमपि असामान्यम् अपूर्वम् अनृतं सुखान्तरं सुखविशेषम् अन्यत् सुखमित्यर्थः । प्राप अनुभूतवती। सुतस्पर्शश्वनितसुखं लोकोत्तरमिति भावः ॥ १८ ॥

 सुविखमयेति । शिशुः बालकः । कर्ता। सु अन्धन्तं यो विस्मयः साथैभावः आनन्दः हर्घश्च ताभ्यां हेतुभूताभ्यां विकस्वरा विकसिता प्रफुल्लितेति यावत् तस्याः । तथा गलनां स्खलतां यो बाष्याणां नेत्रसलिलानां तरङ्गः प्रवाहः स जातोऽस्य: तथोताया:। तरङ्गशब्दादितञ्प्रत्ययः तथा विद्यहं प्रवृद्धे यत् बसस्यं दयावत तस्य यो रसः स्खदः स उत्तरः मुख्यः यस्याः तयोतायाः देव्याः पार्वत्याः दृशोः नयनयोः सम्बन्धिनीं गोचर-


  1. सविस्म्रय।
  2. ट्टशः।