पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२३
द्वादशः सर्गः ।


आत्मानमप्येकमनेकधा स
व्रजन्विभोरास्यमाससाद ॥ ४ ॥
विचित्रचक्षुणिभङ्गि(८)[१]शन'
सौवर्णदण्डं दधतातिचण्डम्।
स नन्दिनाधिष्ठितमध्यतिष्ठत्
सौधाङ्गणद्वारमनङ्गशशोः ॥ ५ ॥

त्वर्थः । इतस्तः यत्र तत्र व्रजन् धावन् अतएव प्रतिविम्बभागं प्रतिबिम्बितं लब्धप्रतिबिम्बमित्यर्थः। एकं एकसंस्यमपि आत्मानं स्वदेहं अनेकधा अनेकप्रकारं बहुसंख्यकमित्यर्थः १३ विलोलमनः पश्यन् सन् । कैलासस्य स्फटिकमयत्वादिति भावः । विभोः प्रभोः हरस्य आस्पदं स्थानं । भवनमित्यर्थः । आससाद प्राप्तवम् ॥ ४ ॥

 विचित्रेति । स इन्द्रः । कर्ता। विचित्राणां अनेकवि धानां चवतां दीप्यमानानां मणीगां रत्राणां याः भन्यः रचनाभेदाः तासां सः सम्यक: यस्य तं तथोतं नानावर्णरजतचितमित्यर्थः । तथा अतिचण्डं अतिभयङ्कर, सौवर्णाः सुवर्णमयः यो दछयष्टि: तम् । कर्मभूतम् । द्धता धारयता नन्दिगा नन्दिनामधेयेन गणेन । कर्मा। अधिष्ठितं प्रधित्रितम् । रक्षकतयेति भावः । अनशनः कामारः शिवस्य सौधस्ख हस्यंस्य सम्बन्धिन: अङ्गणस्य चत्वरस्य यत् द्वारं तत् । ‘अणं चत्वराजिरे’ इति “स्त्रौ शङ्करं प्रतीहार ’ इति चामरः । कर्मभूतम् । अध्यतिष्ठत् प्राप्तवान्। प्रभोररं रइन् तत्र तस्ववित्यर्थः ॥ ५ ॥


  1. सङ्नि ।