पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४७
द्वादशः सर्गः ।

(८)[१]सुरानशेषानक्षकप्रमुखान्
दोर्दण्डचण्डो मनुते तृणाय ॥ ४६ ॥
स्तुत्या पुराभिरुपासितेन
पितामहेनेति निरूपितं नः ।
सेनापतिः संयति दैत्य(९)[२]मेतं
(१)[३]पुरः रारातिसुतो निहन्ति ॥ ४७ ॥
(२)[४]अशे ततोऽनन्तरमद्ययावत्
(३)[५]सुदुःसहां तस्य पराभवार्तिम् ।

अतएव त्रिजगतः त्रिभुवनस्य जिगीषुः जेतुमिच्छुः छन्। विधिदत्तवरप्रभावादिति भावः । अहकप्रमुख्यान् अई प्रमुख्यः श्रेष्ठः येषां तादृशान् अशेषान् सकलान् हणाय सुरान् देवान् मनुते तृणवत् गणयति । वरलब्धबलप्रदीप्तत्वादिति भावः ॥४६॥

 स्तुत्येति । हे महात्मन् इदं सम्बोधनपदमध्याहार्यम् । पुरा प्राक् अस्माभिः कर्तभि: । स्तुत्या स्तवेन उपासितेन पूजितेन अनुकूलितेनेत्यर्थः । पितामहेन विधिना। वर्मा । न: अख्यकम् इति निरूपितं स्थिरौक्तम् । किं निरूपितमित्याह--सेनापतिरिति । संयति युवे स्मरारातेः शिवस्य सम्बन्ध सुतः पुत्रः सेनापतः सैन्याध्यक्षः सन् एतं दैत्यम् असुरं तारकं पुरः पुरा अग्रे निहन्ति निहनिष्यतीत्यर्थः। पुराशब्दयोगे भविष्यत्कालार्थे लट् ॥ ४७ ॥


  1. यस्मजमुख्यानमरानशेषान्सुरान् स जग्भरिसुखान् प्रचलसुरान् स जग्भारिसुरारिमुख्यान्।
  2. एनम् ।
  3. पुरा ,अरारातिसुतःपुरः स्मरारेस्तनयः।
  4. अकामतःअतस्ततः ।
  5. सुरा अदान्तस्य पराभवातिंम् सुदुःसहं तस्य पराभवं तम् ।