पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४३५

एतत् पृष्ठम् परिष्कृतम् अस्ति
१९६
कुमारसम्भवे


अवातरत्काञ्चनशैलतो द्रुतं
(३)[१]कोलाहलाक्रान्तविधूतकन्दरा ॥२५॥
(४)[२] महाचमूस्यन्दनचण्डचीत्कृतैर्विलोल (५)[३]घण्टेभपतेश्च बृंहितैः ।
सुरेन्द्रशैलेन्द्रमहागुहाशयाः
सिंहा (६)[४]महत्स्वप्नसुखं न तत्यजुः ॥२६॥
गम्भीरभेरीध्वनितैर्भयंकरैः
(७)[५] महागुहान्तप्रतिनादमेदुरैः।

सागरः तस्य विलासे व्यापारे लालसा व्यथा रणं कर्तुमुद्यता इत्यर्थः । तथा इति एवं क्रमेण प्रकारेण कोलाहलेन सेनाक्वतकलरवेण आक्रान्ता परिपूरिता विधूता कम्पिता च कन्दरा गुहा सुमेरोरिति भावः । यया तथोक्ता सती द्रुतं शीघ्रं काञ्चनशैलतः सुमेरोः अवातरत् अवरुरोह ॥ २५॥

 महेति । सुराणां देवानां इन्द्रस्य सम्बन्धिनः शैलेन्द्रस्य सुमेरोः सम्बन्धिन्यः महत्यः याः गुहाः गह्वराणि तास्नु शयाः क्वतशयनाः सिंहाः। कर्तारः । महतीनां प्रबलानां चमूनां सेनानां सम्बन्धिनां स्यन्दनानां रथानां चण्डानि अत्युत्कटानि यानि चीत्कृतानि ध्वनिभेदाः तैः, विलोखाः चञ्चला: घण्टाः यस्मिन् तथोन्नस्य इभपतेः गजराजस्य ऐरावतस्य इत्यर्थः । व्वंहितैः करिक्वतध्वनिभिञ्च महत् अत्यन्त स्वप्नस्य निद्रायाः सुखं स्वप्नजनितसुखमित्यर्थः । न तव्यजुः न जहुः । पशुराजत्वादिति भावः ॥ २६ ॥


  1. कोलाहलावृत्तिविधूतकन्दरा, कोलाहलाकूतविधूतकन्दरा, कोलाहलाकृत्तविधूतकान्दरा।
  2. महाचमूनां करिचण्ड ।
  3. घण्टाक्वणितोपहितैः।
  4. महास्वप्न ।
  5. मुहुर्मुहान्तः।