पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०९
चतुर्दशः सर्गः ।


आक्रन्तपूर्वा भर्सन सैनिकै-
र्दिगङ्गना व्योमरजोऽभिदूषिता।
भेरीरवाणां प्रतिशब्दितैर्धनै-
जीगर्न गाढं (१)[१]चनमत्सरादिव ॥ ४८ ॥
रुसमीरसमौरितभूधरा
सूव गजा गगनं विजगाहिरे।
गुरुतरा (२)[२]इव वारिधरा रथा
भुव (३)[३]मिती (४)[४]विवर्त (५)[५]इवाभवत् ॥५०॥

 आक्रान्तेति ॥ दिीव अङ्गना न। कवी। सैनिकैः। कर्तृभिः रभसेन बलेन पूर्वम् आक्रान्ता धर्षिता आक्रान्तपूर्वा। एतेन परपुरुषसंसर्गो ध्वन्यते । अतएव व्योम रजोभिः गगनरजोभिः प्रभिदूषिता सती । ऋतुमतौति ध्वन्यते । घनैः गभौगै: भेरीरवाणां प्रतिष्टितैः प्रतिध्वनिभिः। करणैः । घनः महान्' यः मत्सरः वेषः तस्मादिव गाढ़ भृशं यथा तथा जगन्न गर्जितवती । उत्प्रेक्षेयम् ॥ ४९ ॥

 गुरुसमरेति । गजाः करिणः । कर्तारः । गुरुसमरेण महावायुना। कर्ता । समीरिताः परिचालिताः भूधराः पर्वता इव गगनम् । कर्मभूतम् । तथा रयाः गुरुतराः अतिमहान्तः वारीणां जलानां धराः मेघा इव भुवं भूतलम्। कर्मभूतम् । विजगाहिरे अवगाहनं कृतवन्तः । इति अनेन प्रकारेण सह पंचगमुने विवर्तः विपर्यास इव अभवत् जातः उत्प्रेक्षयम्। वृत्तम्ब द्रुतविलम्बितम् । तदुक्तम्-*हृतविलम्बितमाह नभौ भरी इति ॥ ५० ॥


  1. गुरुमव्सरादिष ।
  2. बडुवारिभराशहनाः।
  3. अप्रतौ।
  4. नमन्तः।
  5. श्ववाभवन्।