पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२८
कुमारसम्भवे


यदा मदान्धो (७)[१]न गताध्यवर्तता
(८) [२]ब्बरात्तदाभून्मरुतां सरस्वती ॥ ३२॥
मदान्ध मा गा भुजदण्डचण्डिमा
वलपतो (९)[३]मन्मथहन्तृसूनुना।
सुरैः (१) [४]सनाथेन पुरन्दरादिभिः
समं समन्तात् (२)[५]समरं विजित्वरैः ॥३३॥
(३)[६]गुहोऽसुरैः षदिनजातमात्रको
निदाघधामेव निशातमोभरैः।

इत्यादिभिः पूर्णाहैः प्ररिष्टः महोत्पातैः । कर्तृभिः । पुनःपुनः वरंवारं यथा तथा विहन्यमानः ताध्यमानोऽपि सन् यदा गप्तां गमनात् गृञ्जयानया इत्यर्थः । भावे प्रत्ययः । न न्यवर्तत न पराजुखा बभूव। तदा अम्बरात् गगनाम् मरुतां देवानां सम्बन्धिनी सरखती वाणं प्रभूत् बभूव ॥ ३२ ॥

 मद्धेति ॥ हे मदश्व मदगर्वित। त्वमिति चाडैपदमूम् । भुजदण्डयोः बाङ्दयोः यः चण्डिमा प्रचण्डवं तैन अवलेपात् गर्वात् हेतोः । पञ्चमौखाने तस्प्रत्ययः। विजित्वरैः विजयशौले, पुरन्दः इद्रः अादिः प्रथमः येषां तथोतैः सुरैः देवैः समन्तात् परितः सनाथेन युक्तेन, मन्मथहन्ता हरः तस्य सम्बन्धिना सुनुना कुमारेण समं सह समरं संग्रामम् । कर्मभूतम् । कर्तुमित्यर्थः । मा गाः मा याहि ॥३३ ॥

 गुह इति । निशायाः रजन्या: यत् तमः अन्धक तख सम्बन्धिभिः भरेः संधैः। कर्तृभिः । गिदाघधामा उष्णरश्मिरिव।


  1. न च विन्धवर्तत, ग गतः स वर्त्ना ना ।
  2. अम्बरे ।
  3. मन्नधशत्रु ।
  4. समायैस्त्रिदिवेशरादिभिः, सनाथैस्त्रिदशेश्वरादिभिः।
  5. समरे ।
  6. महासुहैः, सुरासुरैः।