पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४७२

एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चदशः सर्गः ।


खानः (६)प्रमत्ता इव (७)कार्तिके निशि स्वैरं वनान्ते मृगधूर्तका इव ॥ ४१ ॥ सङ्गेन वो (८)गर्भतपस्खिनः शिशुर्वराक एषोऽन्तमवासति ध्रुवम् । अतस्करस्तस्करसङ्गतो यथा वर तद्वो निहन्मि प्रथमं ततो(१)ऽप्यमुम् ॥४२॥

यूयमिति कर्तृपदमूह्यम्। कार्तिके कार्तिकनाद्धि मासि । कालाधिकरणमत्र । प्रमत्ताः मदोन्मत्ताः खान: कुक्कुरा इव । कार्तिक मासि शुनां मदोन्मत्तत्वं सर्वत्र प्रसिद्धमिवि भावः । तथा निशि रजन्यां वनानाम् अरण्यानाम् अन्ते सीमायां मृगेषु पशुषु धूर्तकाः शुमाला इव, षड्दनजातकस्य अवज्ञापनस्संत्यर्थः । शिशेः बालस्य कुमारस्य बलात् बलमवलम्बत्यर्थः । यवर्थे पञ्चमी। कटूभिः कठोरैः स्वनै: नादैः । करणैः। किं कथं खैरं यथेच्छं यथा तथा प्रालपथ अनर्थकं वचः षदथेत्यर्थः । "प्रलापोऽनर्थकं वचः” इत्यमरः ॥ ४१ ॥

सङ्गेनेति ।। तस्कराणां चौराणां सङ्गप्तः संमर्गात् हेतोः अतस्करः अचौरः यथा अमाधुरिवेत्यर्थः । वः युआकम असाधूमामित्यर्थः। सम्बन्धिना मङ्गेन संसर्गेण हेतुना । गर्भ एव तपखो तस्य हरस्य सम्बन्धी एष वराकः निरपराध इत्यर्थः। शिशुः। कर्ता। ध्रुवं निश्चितं यथा तथा अन्त' नाशम् आवाअति लप्सते । तत् तस्मात् प्रथमम् अग्रे वः युष्मान्, ततः युअत्रशानन्तरम् अमुं शिशुमपि निहभि विनाशयामि। अये अधिकदोषिशासनस्यावश्यकत्वादिति भावः ॥ ४२ ॥(१)प्रहत्ताः (७)कर्थिकीनिशि। (८)भर्गतपखिनः (८)अतस्करम्। (१)तु ।