पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४१
षोड़शः सर्गः ।


युद्धाय धावतां धौरं चौराणामितरेतरम्।
वैतालिकाः (४)[१]कुलाधौशा नामान्यलमुदाहरन्॥३॥
(५)[२] पठतां वन्दिष्टन्दानां प्रवरा विक्रमावलम्।
क्षणं विलम्बा चित्तानि युद्धोत्सुकाः (६)[३]पुरः ॥४॥

दन्तिनि गजे स्थितः गजारूढ़मैन्य इत्यर्थ:। दन्तिनि तिष्ठतौति दन्तिस्व गजस्थितं जनमित्यर्थः। रणाय रणथं युद्ध ' कर्तुमित्यर्थः । अभीौयय संमुखनो बभूव । यदृणं स्वजातौथैः सह युद्धस्य कर्तव्यत्वादिति भावः । बहुत्वभिंया प्रत्येकं झियसम्बन्धः कतयः ॥ २ ॥

 युदयेति । कुलानां वंशानां अधोशः जमिनः। आत्मकुलोचितविद्यायां प्रतिप्रवणा इत्यर्थः। वैतालिकः स्तुतिपाठकाःकर्तारः । इतरेतरं अन्योन्यं युद्धाय युद्धार्थं युद्ध कतुमित्यर्थः । धीरं गभीरं यथा तथा धावतां गच्छतां वीराणां योद्धगणानां सम्बन्धीनि नामानि वीरभदोयं धावतीत्यादीनयर्थः उक्तवन्तः । उदाहरन् । परावज्ञानार्थमिति भावः ॥ ३ ॥

 पठतामिति । प्र प्रकृष्टाः वीराः योञ्चरःसमरे युद्धे उत्सुकाः उत्कण्ठिताः। अतएव विक्रमाण पराक्रमाणां आवलीं समाहारं पठतां स्तुवतां, साधु पराक्रान्तमिति पुनः पुनः कथयतामित्यर्थः । बन्दिनां स्तुतिपाठकानां यानि वृन्दानि समूहः तेषां पुरः संमुखे चिह्नानि अन्तःकरणनि। कर्मभूतानि । क्षणं विलम्ब कालं विलम्ब रुत्वेत्यर्थः । ददुः दत्तवन्तः ॥ ४ ॥


  1. कुलाधीशनामानि।
  2. पठिता वन्दिभिः श्रुत्वा प्रवीरविरुदावलीःपठित बर्हिवृन्देन प्रचरविरुदावलीौःपठतां वन्दिवृन्दानां प्रवीरा विरुदावलिम् ।
  3. अपि।