पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२६०
कुमारसम्भवे


देवद्विषां परिदृढ विकटं विहस्य
बाणावलीभि(४)[१]रमरान्विकटान्ववर्षे ।
शलानिव (५)[२]प्रवरवारिधरो गरिश
नद्भिः पराभिरथ गाढमनारताभिः ॥ २ ॥
जम्भद्विषत्प्रभृतिदिक्पतिचापमुक्ता
बाणाः (६)[३]शिता (७)[४] दनुजनायकबाणसङ्घान् ।

सम्बन्धिनं पतिम् ईश्वरं तारकम्। कर्म। पुरस्तात् संसुक्षतः अभ्यपेतम् आगतं दृष्ट्वा अवलोक्य एत्य थागम्य मदेन गर्वेण हेतुमा योङ युवं कर्तु’ मिमिलुः मिलिता बभूवुः। अस्मिन् सर्गे वसन्ततिलकं वृत्तम् ‘ज्ञेयं वसन्ततिलकं तभजा जगौ ग:” इति तल्लक्षणात् ॥ १ ॥

 देवेति ॥ अथ अनन्तरं देवान् हिघनतौति देवद्विषः तेषाम् । डिषधातोः कर्तरि क्षिप्प्रत्ययः। असुराणां सम्बन्धी परिवृढः स्वामी तारकासुरः। कर्ता। विकटम् उत्कटं यथा तथा विहस्य सस्यं कृत्व, प्रवरः महान् वरिधरः जलधरः। उपमानपक्षे कर्ता । पराभिः अत्यन्ताभिः अनारताभिः प्रविरतभिः अविच्छिन्नाभिरित्यर्थः । अग्निः जलैः । करणैः । गरिष्ठान् अतिमहतः शैलान् पर्वतामिव । उपमानपक्षे कर्म । बाणमां शराणाम् आवलीभिः निकरैः । कर । विकटान् घशाक्रान्तान् अमरान् देवान् । उपमेयपक्षे कर्म। गाढभृशं यथा तथा ववर्ष छदितवान्। टपमयम् ॥ २ ॥

 जगथेति ॥ रणास्य युहस्य स्रस्बन्धिनि अन्त सीमायाम्


  1. अभितः कुपितो ववर्ष ।
  2. प्रबलवारिधरो गरिष्ठानम्भस्तनौभिः, प्रबल वारिधरो परिष्ठागधास्तीभिःप्रचुरुवारिधरो गरिष्ठानस्तनौभिः।
  3. शिताम्।
  4. असुरराजकवायसङ्गान् ।