१६४ कुमारसम्भवे
बड़ा मया सुरपतिप्रमुखाः प्रस ब बालस्य धूर्जटिसुतस्य निरौक्षणेन ॥ ८॥ मुक्ता बभूवुरधुना तदिमान्विहाय कर्ता(१)आमुं समरभूमिपशूपहारम् । तस्यन्दनं सपदि वाहय शम्भुसूनु' द्रष्टानि दर्पितभुजाबलमाहवाय ॥ ६ ॥
पाशमुक्तयनन्तरमित्यर्थः । चण्डै उग्रौ बाहू बाइबलमित्यर्थः । यस्त्र तथोक्तः । तथा उझौप्तः प्रज्वलित: कोपः क्रोध एव दहनः अग्निः यस्त्र तथाभूतः । सुरेन्द्राणाम् इन्द्रप्रभृतिदेवानां शत्रुः अरिः तारकः । कर्ता। अङ्गाय शत्र सरयिं सुतम्। कम । अवोचत उक्तवान् । किं तदित्याह-बझा इति । सुराणां देवानां पतिः नायकः इन्द्रः प्रमुखः अग्रगामी येषां तथोत: देवाः सुराः। मया। कर्वा । प्रसव सहसा बहः नाग- पाशेन निगडिता प्रपौत्यर्थः । बालस्य अल्पवयस्कस्त्र। अपि- शब्दोनोश्वः । धूर्जटिसुतस्य हरतनयस्य निरीक्षणेन कृपादृध्या सुता बभूवुः अभूवन् । तत् तस्मात् अधुना इदनीम् इमान् सुशान् । कर्म। विहाय विमुच्य अमुं दृश्यमानं कार्तिकेयम्। कर्म। समरस्य संग्रामस्य या भूमिः क्षेत्र तस्यां पशूनां गुणा- लप्रभृतीनां यः उपहार: उपढौकनं तं कर्तास्ति । युऽइतोयं भक्षणार्थं पशुभ्यो दातव्य इति भावः । तत् तस्मात् हेतोः सपदि सत्वरं स्यन्दनं रथम् । कर्म। वाहय चालय । त्वमिति कर्तृपदमृष्टम् । अनुज्ञायां लोट्। अस्मि अहम्। कर्ता। दर्पितभुजाबलं बाबुबलोद्धतमित्यर्थः । शम्भोः हरस्य सम्बन्धिनं सुनु तनयम्। कर्म। आइवाय युद्धार्थं द्रष्टा अवलोकयिथामि। कुलकम् ॥ ८॥ ९ ॥
(१)अहम्।