पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/५०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२६५
सप्तदशः सर्गः ।


तस्यन्दनः सपदि सारथिसंप्रभुत
(२)[१] प्रक्षुब्धवारिधरधीरगभीरघोषः ।
(३)[२]चण्डश्चचाल दलिताखिलशत्रु सैन्य-
मांसास्थि(४)[३]शोणितविपङ्कविलुप्तचक्रः ॥१०॥
दृष्ट्वा रथं प्रलयवातचलद्भिरोन्द्र
कल्पं दलदल(५)[४]विरावविशेषरौद्रम्।
अभ्यागतं सुररिपोः सरराजसैन्यं
नोभं जगाम परमं भयवेपमानम् ॥ ११ ॥

 तदिति । प्रक्षुब्धस्य रोषान्वितस्य। प्रलयकालनस्येति भावः । वारिधरस्य जलदस्येव धीरः गभीरः धन: निविड़ख घोषो यस्य तथाभूतः। तथा दलितस्य चूर्णितस्य अखिलस्य समस्तस्य शत्रुसैन्यस्य अरिसेनायाः मांसेन, अस्थिभिः, शोणितविपडून रक्तकर्दमेन च विलुमानि चक्राणि चरणानि यस्य तादृशः ? अतएव चण्डः प्रचण्डः तस्व तारकासुरस्य सम्बन्धी स्यन्दनः रथः । कर्ता। सपदि तत्क्षणमेव । न तु विलम्बेनेति भावः। सारथिना सूतेन तारकस्येति शेषः । कत्र । संप्रणुनः प्रेरितः सन् चचाल जगाम ॥ १० ॥

 दृष्टुति । सुराणां देवानां राज्ञः अधिपस्य सैन्यं सेना। कटें । प्रलये कल्पान्तसमये जातेन वातेन पवनेन चलतः गिरौद्रात् पर्वतराजात् ईषदूनम्। तथा दलन्ति चूर्णीभवन्ति यानि बलानि सैन्यानि तेषां य: विरावः आर्तनादः तेन विशेषरौद्रम् अतिभयङ्करम्। तथा अभ्यागतं समुपस्थितं. सुराणां देवानां रिपोः अरे तारकस्य सस्यन्धिनं रथं स्यन्दनम्।


  1. प्रारब्ध।
  2. चखम् ।
  3. शोणितशुपभुविलुप्तवेगः, शोणितजपभुविलुप्तचक्रः ।
  4. विराम ।